11009: तुल्यास्यप्रयत्नं सवर्णम् ================================ **Padacheda:** तुल्य-आस्य-प्रयत्नम् | S | 1 | 1 | सवर्णम् | S | 1 | 1 | Sutrartha --------- **ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् आभ्यन्तरप्रयत्नश्च समानौ स्तः तौ वर्णौ परस्परयोः 'सवर्णौ' उच्येते ।** इदम् सूत्रम् अष्टाध्याय्याः 'सवर्ण'संज्ञा विधायकम् सूत्रम् अस्ति । द्वयोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा च आभ्यन्तरप्रयत्नाः समानाः सन्ति चेत् तौ वर्णौ परस्परयोः 'सवर्णौ' भवतः — इति अस्य सूत्रस्य आशयः । वर्णोच्चारणस्थानानि — वर्णानाम् उच्चारणस्थानानि सिद्धान्तकौमुद्याम् सूत्ररूपेण पाठितानि सन्ति । तानि एतादृशानि - (1) **अकुहविसर्जनीयानां कण्ठः** — अ, क्, ख्, ग्, घ्, ङ् , ह् , विसर्गः - एतेषाम् उच्चारणस्थानम् **कण्ठः** । (2) **इचुयशानां तालु** — इ, च्, छ्, ज्, झ्, ञ्, य् , श् - एतेषाम् उच्चारणस्थानम् **तालु** । (3) **ऋटुरषाणां मूर्धा** — ऋ, ट्, ठ्, ड्, ढ्, ण्, र्, ष् - एतेषाम् उच्चारणस्थानम् **मूर्धा** । (4) **ऌतुलसानां दन्ताः** — ऌ, त्, थ्, द्, ध्, न्, ल्, स् - एतेषाम् उच्चारणस्थानम् **दन्ताः** । (5) **उपूपध्मानीयानाम् ओष्ठौ** — उ, प्, फ्, ब्, भ्, म्, उपध्मानीयः - एतेषाम् उच्चारणस्थानम् **ओष्ठौ** । (6) **ञमङणनानां नासिका च** — ञ्, म्, ङ्, ण्, न् - एतेषाम् उच्चारणस्थानम् नासिका अपि अस्ति । परन्तु एतत् 'मुखस्थितम्' उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्य चर्चा न क्रियते । (7) **एदैतोः कण्ठतालु** — ए, ऐ एतयोः उच्चारणस्थाने **कण्ठः तथा तालु** इति द्वे । (8) **ओदौतोः कण्ठोष्ठम्** — ओ, औ एतयोः उच्चारणस्थाने **कण्ठः तथा ओष्ठौ** इति द्वे । (9) **वकारस्य दन्तोष्ठम्** — व् वर्णस्य उच्चारणस्थाने **दन्ताः तथा ओष्ठौ** इति द्वे । (10) **जिह्वामूलीयस्य जिह्वामूलम्** — जिह्वामूलीयवर्णस्य उच्चारणस्थानम् **जिह्वामूलम्** । (11) **नासिका अनुस्वारस्य** — अनुस्वारस्य उच्चारणस्थानम् नासिका इति । एतदपि मुखस्थितम् उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्य अपि चर्चा न क्रियते । वर्णानाम् आभ्यन्तरप्रयत्नाः — वर्णानां आभ्यन्तरप्रयत्नाः अपि सिद्धान्तकौमुद्याम् पाठिताः सन्ति । ते एतादृशाः — (1) **स्पृष्टं प्रयतनं स्पर्शानाम्** — सर्वेषाम् वर्गीयव्यञ्जनानाम् आभ्यन्तरप्रयत्नः **स्पृष्टः** इति स्वीक्रियते । (2) **ईषत्स्पृष्टम् अन्तःस्थानाम्** — अन्तःस्थवर्णानाम् (य्, व्, र् ,ल् एतेषाम्) आभ्यन्तरप्रयत्नः **ईषत्स्पृष्टः** इति स्वीक्रियते । (3) **विवृतम् ऊष्मणां स्वराणां च** - सर्वेषाम् स्वराणाम्, तथा च ऊष्मणाम् (श्, ष्, स्, ह् एतेषाम् वर्णानाम्) आभ्यन्तरप्रयत्नः **विवृतः** इति स्वीक्रियते । (4) **ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव** - ह्रस्वः अकारः प्रयोगे (इत्युक्ते, भाषायाम्) संवृतः स्वीक्रियते, परन्तु प्रक्रियायाम् (इत्युक्ते सूत्राणां प्रयोगसमये) सः **विवृतः** अस्ति इत्येव मन्यते । पतञ्जलिमुनिना महाभाष्ये आभ्यन्तरप्रयत्नाः केनचित् भिन्नप्रकारेण उक्ताः सन्ति । भाष्यकारेण श् ष्, स्, ह् एतेषाम् आभ्यन्तरप्रयत्नः 'ईषद्विवृतः' इति उक्तः अस्ति, ऐकारऔकारयोः च आभ्यन्तरप्रयत्नः 'विवृततरः' इति निर्दिष्टः अस्ति । अनेन प्रकारेण महाभाष्ये आहत्य षट् आभ्यन्तरप्रयत्नाः पाठ्यन्ते । पाणिनेः मतेन तु उपरिनिर्दिष्टाः चत्वारः एव आभ्यन्तरप्रयत्नाः सन्ति । **सवर्णानां परिगणनम्** ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा आभ्यन्तरप्रयत्नः परस्पराभ्याम् समानौ स्तः, तौ वर्णौ परस्परयोः सवर्णौ भवतः — इति अस्य सूत्रस्य अर्थः । एताम् व्याख्याम् अनुसृत्य सर्वणानाम् आवली एतादृशी भवति — 1) सर्वेषाम् कवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'कण्ठः', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः **क्, ख्, ग्, घ्, ङ् एते परस्पराणाम् सवर्णाः सन्ति ।** 2) सर्वेषाम् चवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'तालु', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः **च्, छ्, ज्, झ्, ञ् एते परस्पराणाम् सवर्णाः सन्ति ।** 3) सर्वेषाम् टवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'मूर्धा', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः **ट्, ठ्, ड्, ढ्, ण् एते परस्पराणाम् सवर्णाः सन्ति ।** 4) सर्वेषाम् तवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'दन्ताः', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः **त्, थ्, द्, ध्, न् एते परस्पराणाम् सवर्णाः सन्ति ।** 5) सर्वेषाम् पवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'ओष्ठौ', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः **प्, फ्, ब्, भ्, म् एते परस्पराणाम् सवर्णाः सन्ति ।** 6) **अकारस्य सर्वे अष्टादश भेदाःपरस्पराणाम् सवर्णाः सन्ति ।** (अष्टादशभेदाः इत्थम् — ह्रस्व-दीर्घ-प्लुताः त्रयः, तेषु प्रत्येकम् उदात्त-अनुदात्त-स्वरितभेदेन त्रिधा = आहत्य नव, तेषु प्रत्येकम् अनुनासिक-अननुनासिकरूपेण द्विधा = आहत्य अष्टादश) । 7) **इकारस्य सर्वे अष्टादश भेदाः परस्पराणाम् सवर्णाः सन्ति ।** 8) **उकारस्य सर्वे अष्टादश भेदाः परस्पराणाम् सवर्णाः सन्ति ।** 9) यद्यपि ऋकार-ऌकारयोः उच्चारणस्थानम् भिन्नम्, तथापि तयोः मध्ये सावर्ण्यम् इष्यते । तदर्थम् वार्त्तिककारः — इति वार्त्तिकं पाठयति । **ऋकारस्य सर्वे भेदाः, ऌकारस्य च सर्वे भेदाः परस्पराणां सवर्णाः सन्ति** — इति अस्य वार्त्तिकस्य अर्थः । अनेन प्रकारेण आहत्य त्रिंशत् वर्णाः( ऋकारस्य अष्टादशभेदाः + ऌकारस्य (दीर्घभेदस्य अभावात्) द्वादशभेदाः = आहत्य त्रिंशत्) सर्वे परस्पराणाम् सवर्णाः सन्ति । 10) **यकारस्य अनुनासिक-निरनुनासिक-भेदौ (य्ँ - य् एतौ) परस्परयोः सवर्णौ स्तः ।** 11) **वकारस्य अनुनासिक-निरनुनासिक-भेदौ (व्ँ - व् एतौ) परस्परयोः सवर्णौ स्तः ।** 12) **लकारस्य अनुनासिक-निरनुनासिक-भेदौ (ल्ँ - ल् एतौ) परस्परयोः सवर्णौ स्तः ।** 1.यद्यपि एकार-ऐकारयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानौ स्तः, तथापि एतौ द्वौ परस्परयोः सवर्णौ न स्तः इति ज्ञेयम् । एतादृशम् किमर्थम् इति चेत् — यदि एकार-ऐकारौ परस्परयोः सवर्णौ भवेताम्, तर्हि **अणुदित् सवर्णस्य चाप्रत्ययः** (1.1.69) इति सूत्रबलेन 'अण्-प्रत्याहारे विद्यमानेन एकारेण ऐकारस्य अपि ग्रहणं भवेत् । एतादृशं ग्रहणं सम्भवति चेत् अण्-प्रत्याहारे ऐकारस्य पृथक् निर्देशः व्यर्थः भवति । अयं व्यर्थः सन् एव ज्ञापयति यत् एकारेण ऐकारस्य ग्रहणम् न भवति । अस्यैव अर्थः 'एकार-ऐकारौ परस्परयोः सवर्णौ न स्तः' — इति । एवमेव, ओकार-औकारौ अपि परस्परयोः सवर्णौ न स्तः । 2. वस्तुतस्तु भाष्ये एकार-ओकारयोः आभ्यन्तरप्रयन्तः विवृतः, तथा ऐकार-औकारयोः आभ्यन्तरप्रयत्नः विवृततरः निर्दिश्यते । अस्मिन् पक्षे एकार-ऐकारयोः, एवमेव ओकार-औकारयोः आभ्यन्तरप्रयत्नौ एव भिद्येते, अतः तयोः सवर्णसंज्ञा अपि न सम्भवति । **सवर्णसंज्ञायाः प्रयोजनम्** सवर्णसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । द्वे उदाहरणे एतादृशे - 1. **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन अक्-वर्णस्य **सवर्णयोः** अक्-वर्णयोः एकः दीर्घादेशः भवति । यथा - .. code-block:: text जीवस्य आत्मा [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषसमासः] → जीव + आत्मन् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः] → जीवात्मन् [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः एकादेशः] 2. **वा पदान्तस्य** (8.4.59) इत्यनेन पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन पर**सवर्णः** भवति । यथा - .. code-block:: text वन्दनं करोमि → वन्दनङ्करोमि [**वा पदान्तस्य** (8.4.59) इत्यनेन अनुस्वारस्य परसवर्णः] **सवर्णसंज्ञायाः सूत्रेषु प्रयोगः** सवर्णसंज्ञायाः साक्षात् प्रयोगः अष्टाध्याय्याम् नवसु सूत्रेषु कृतः अस्ति — 1. **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु** (1.1.58) 2. **अणुदित्सवर्णस्य चाप्रत्ययः** (1.1.69) 3. **अकः सवर्णे दीर्घः** (6.1.101) 4. **प्रथमयोः पूर्वसवर्णः** (6.1.102) 5. **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) 6. **अभ्यासस्यासवर्णे** (6.4.78) 7. **सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः** (7.1.39) 8. **अनुस्वारस्य ययि परसवर्णः** (8.4.58) 9. **झरो झरि सवर्णे** (8.4.65) अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति । **स्वरव्यञ्जनयोः सावर्ण्यम्** वस्तुतस्तु अवर्ण-हकारयोः उच्चाणस्थानम् समानम् (कण्ठः), आभ्यन्तरप्रयत्नः अपि समानः (विवृतः) । अतः प्रकृतसूत्रेण अवर्ण-हकारयोः मध्ये सावर्ण्यम् भवितुम् अर्हति । एवमेव, इवर्ण-शकारयोः मध्ये, ऋवर्ण-षकारयोः मध्ये, ऌवर्ण-सकारयोः अपि सावर्ण्यम् भवितुम् अर्हति, यतः प्रत्येकं युगलस्य विषये स्थानम् आभ्यन्तरप्रयत्नः च मिथः समानौ स्तः । परन्तु एतादृशम् स्वर-व्यञ्जनयोर्मध्ये सावर्ण्यम् नैव इष्यते । अतएव पाणिनिना **नाज्झलौ** (1.1.10) इति अग्रिमं सूत्रं विरचितम् अस्ति । अग्रिमसूत्रेण एतादृशस्य स्वरव्यञ्जनयोर्मध्ये प्राप्तस्य सावर्ण्यस्य निषेधः क्रियते । भाष्यकारस्य मतेन तु, श् ष्, स्, ह् एतेषाम् आभ्यन्तरप्रयत्नः 'ईषद्विवृतः' इति उक्तः अस्ति, न हि 'विवृतः' इति । सर्वेषाम् स्वराणाम् आभ्यन्तरप्रयन्तः तु विवृतः इत्येव । अतः अवर्ण-हकारयोः मध्ये, इवर्ण-शकारयोः मध्ये, ऋवर्ण-षकारयोः मध्ये, तथा च ऌवर्ण-सकारयोः मध्ये भाष्यकारस्य मतेन सावर्ण्यम् नैव विद्यते । अतएव तादृशस्य सावर्ण्यस्य निषेधार्थम् **नाज्झलौ** (1.1.10) इति अग्रिमं सूत्रम् अपि भाष्यकारस्य मतेन अनावश्यकम् एव वर्तते । **सवर्णग्रहणम्** 'सवर्णग्रहणम्' इति कश्चन विधिः । एकस्य वर्णस्य सूत्रे विद्यमानेन निर्देशेन तस्य वर्णस्य सर्वेषाम् अपि सवर्णानाम् तत्र ग्रहणम् — इत्यस्य नाम सवर्णग्रहणम् । The ability of a letter to bring all the savarnaas with itself is called सवर्णग्रहणम् । एतादृशं सवर्णग्रहणम् कुत्र सम्भवति, कुत्र च न वर्तते अस्मिन् विषये **अणुदित्सवर्णस्य चाप्रत्ययः** (1.1.69) तथा **तपरस्तत्कालस्य** (1.1.70) इति द्वे सूत्रे विस्तरेण स्पष्टी कुरुतः । सवर्णसंज्ञा, सवर्णग्रहणम् इत्येतयोः विषये अधिकं विस्तरेण ज्ञातुम् जिज्ञासुभिः अयं लेखः अपि अवश्यं द्रष्टव्यः । Sutrartha (English) ------------------- Two letters are called सवर्ण of each other if their mouth-based location of pronunciation and their आभ्यन्तरप्रयत्न are same as of each other. Vasu English Summary -------------------- Those whose place of utterance and effort are equal are called सवर्ण or homogeneous letters. Vasu English Translation ------------------------ Those whose place of utterance and effort are equal are called सवर्ण or homogeneous letters. This defines the word *savarna* or a homogeneous letter. The *sūtra* consists of four words :- तुल्य "equal or similar," आस्य "mouth or place of pronunciation," प्रयत्न "effort" and सवर्णम् "words of the same class." The आस्य or places or portions of the mouth by contact with which various sounds are formed are chiefly the following :- 1. कण्ठ "throat" 2. तालु 'palate,' 3. मूर्द्धा, 'head,' 4. दन्ताः 'teeth,' 5. ओष्ठौ 'lips,' 6. नासिका 'nose.' The प्रयत्नम् or quality or effort is of two sorts primarily, आभ्यन्तरः "internal" and बाह्यः "external." The first is again sub-divided into five parts:- 1. स्पृष्टम् or complete contact of the organs. The twenty-five letters from क to म belong to this class. In pronouncing these there is a complete contact of the root of the tongue with the various places, such as throat, palate, dome of the palate, teeth and lip. 2. ईषत्स्पृष्टम् or slight contact. The letters य, र, ल, व belong to this class of contacts. "In pronouncing these semi-vowels the two organs, the active and passive, which are necessary for the production of all consonantal noises, are not allowed to touch each other, but only to approach." 3. विवृतम् or complete opening. The vowels belong to this class. 4. ईषद् विवृतम् or slight opening. The letters श, ष, स, ह belong to this class. Some however place the vowels and श &c., into one group and call them all *vivrita*. 5. संवृतम् or contracted. In actual use, the organ in the enunciation of the short अ is contracted but it is considered to be open only, as in the case of the other vowels, when the vowel अ is in the state of taking part in some operation of grammar. The *abhyantara* *prayatna* is the mode of articulation preparatory to the utterance of the sound, the *båhya*-*prayatna* is the mode of articulation at the close of the utterance of the sound. The division of letters according to *abhyantra* *prayatna* has been already given. By that we get, 1. the *sparsa* or mute letters, 2. the *antastha* or intermediate between *sparsas* and *ushmans*, or semi-vowel or liquid letters, 3. the *svaras* or vowels or *vivrita* letters, 4. the *ushmans* or sibilants or flatus letters. The division of letters according to *båhya* *prayatna* gives us first surds or *aghosha* letters, 2. sonants or *ghosha* letters. The *aghosha* are also called *svasa* letters, the *ghoshas* are called *nåda* letters. The second division of letters according to *båhya* *prayatna* is into; 1. Aspirated (*mahåprana*). 2. Unaspirated (*alpaprana*). The vowel अ has eighteen forms. The acute अ (*udatta*), grave अ (*anudatta*) and circumflexed अ ( *svarita*). Each one of these three may be nasalised (*anunasika*), or not (*niranunasika*). Then lastly everyone of these six may be short, long, or prolated. Thus:- अ, अ॒, अ॑, अँ, अँ॒, अँ॑, आ, आ॒, आ॑, आँ, आँ॒, आँ॑, अ३, अ॒३, अ॑३, अँ३, अँ॒३, अँ॑३. Similarly the letters इ, उ and ऋ have also eighteen forms. The letter ऌ has no long form; it has therefore 12 modifications. The diphthongs have no short forms, they have therefore, only 12 forms. The *antastha* or semi-vowels with the exception of र have two forms each vis., nasalised and un-nasalised. The semi-vowels have no homogeneous letters corresponding to them. All letters of a *varga* or 'class' are homogeneous to each other. Thus then the homogeneous or *savarna* letters must satisfy two conditions before they could be called *savarna*. First, their place of pronunciation or आस्य must be the same. Secondly their प्रयत्न or quality must be equal. If one condition be present and the other be absent, there can be no *savarna*-hood. Thus च and श are both palatals, their आस्य or place of pronunciation being तालु 'palate', but still they are not *savarna*, because their प्रयत्न is different, the प्रयत्न of च being *sprishta* and that of श being *vivrita*. Similarly क and च though their प्रयत्न is the same i.e., *sprishta*, yet their आस्य being different, one being guttural and the other palatal, are not *savarna*. There is exception to this rule in the case of ऋ and ऌ, which though having different आस्य are still called *savarna* by virtue of the *varttika* of *Katyayana*; "the homogeneousness of ऋ and ऌ , one with another, should be stated." Thus होतृ+ऌकारः = होतॄकारः ; here ऋ and ऌ have coalesced into long ॠ by rules of *sandhi*, on the assumption that they are *savarna* letters. The word *savarna* occurs in *sůtras* like अकः सवर्णे दीर्घः (6.1.101). Why do we say "the place of pronunciation"? So that there may not be homogeneous relationship between कचटत and प whose *prayatna* is the same but whose *åsya* is different. What is the harm if we make them *savarna*? Then in words like तर्प्ता and तर्प्तुम्, the प would be elided, if it be held homogeneous with त, by (8.4.65), "there is optional elision of झर्, preceded by a consonant, when a homogeneous झर् follows." Why do we say "effort"? That there may be no homogeneity between इ and the palatals, and य and श, whose organ of pronunciation is the same, but whose *prayatna* is different. What harm if it be so ? Then in अरुश्च्योतति, the श would be elided before च by the rule already referred to, (8.4.65). Bhashya ------- तुल्यास्यप्रयत्नं सवर्णम् तुलया संमितं तुल्यम्। आस्यं च प्रयत्नश्च आस्यप्रयत्नम्। तुल्यास्यं च तुल्यप्रयत्नं च सवर्णसञ्ञ्ज्ञं भवति। किं पुनरास्यम् ? लौकिकमास्यम्। ओष्ठात् प्रभृति प्राक् काकलकात्। कथं पुनरास्यम् ? अस्यन्त्यनेन वर्णानिति आस्यम्। अन्नमेतदास्यन्दते इति वा आस्यम्। अथ कः प्रयत्नः ? प्रयतनं प्रयत्नः। प्रपूर्वाद्यततेर्भावसाधनो नङ् प्रत्ययः। यदि लौकिकमास्यं, किमास्योपादाने प्रयोजनम्। सर्वेषां हि तत् तुल्यं भवति। वक्ष्यत्येतत्- प्रयत्नविशेषणमास्योपादानमिति। ॥ सवर्णसञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् । सवर्णसञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गो भवति - जबगडदशाम्। किं कारणम्? प्रयत्नसामान्यात्। एतेषां हि समानः प्रयत्नः । सिद्धं त्वास्ये तुल्यदेशप्रयत्नं सवर्णम्। सिद्धमेतत्। कथम्। आस्ये येषां तुल्यो देशः प्रयत्नश्च ते सवर्णसञ्ज्ञा भवन्तीति वक्तव्यम् । एवमपि किमास्योपादाने प्रयोजनम्। सर्वेषां हि तत् तुल्यम् । प्रयत्नविशेषणमास्योपादानम्। सन्ति ह्यास्याद् बाह्याः प्रयत्नाः। ते हापिता भवन्ति। तेषु सत्स्वसत्स्वपि सवर्णसञ्ज्ञा सिद्धा भवति। के पुनस्ते ? विवारसंवारौ, श्वासनादौ, घोषवदघोषता, अल्पप्राणता, महाप्राणतेति। तत्र वर्गाणां प्रथमद्वितीया विवृतकण्ठाः श्वासानुप्रदाना अघोषाश्च। एकेऽल्पप्राणा इतरे महाप्राणाः। तृतीयचतुर्थाः संवृतकण्ठा नादानुप्रदाना घोषवन्तः। एकेऽल्पप्राणाः। अपरे महाप्राणाः। यथा तृतीयास्तथा पञ्चमाः। आनुनासिक्यवर्जम्। आनुनासिक्यमेषामधिको गुणः । एवमप्यवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति। बाह्यं ह्यास्यात् स्थानमवर्णस्य । सर्वमुखस्थानमवर्णमेकं इच्छन्ति । एवमपि व्यपदेशो न प्रकल्पते- आस्ये येषां तुल्यो देश इति । व्यपदेशिवद्भावेन व्यपदेशो भविष्यति । सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तं सवर्णासञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् इति। नैष दोषः। नहि लौकिकामस्यम्। किं तर्हि? तद्धितान्तमास्यम्। आस्ये भवमास्यम्। शरीरावयवाद्यत्। किं पुनरास्ये भवम्। स्थानं करणं च । एवमपि प्रयत्नोऽविशेषितो भवति । प्रयत्नश्च विशेषतः। कथम्। न हि प्रयतनं - प्रयत्नः। किं तर्हि? प्रारम्भो यत्नस्य प्रयत्नः। यदि प्रारम्भो यत्नस्य प्रयत्नः एवमप्यवर्णस्य एङोश्च सवर्णसञ्ज्ञा प्राप्नोति। प्रश्लिष्टावर्णावेतौ। अवर्णस्य तर्ह्यैचोश्च सवर्णसञ्ज्ञा प्राप्नोति। विवृततरावर्णावेतौ। एतयोरेव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति। नैतौ तुल्यस्थानौ। उदात्तादीनां तर्हि सवर्णसञ्ज्ञा न प्राप्नोति। अभेदका उदात्तादयः। अथवा किं न एतेन प्रारम्भो यत्नस्य प्रयत्न इति। प्रयतनमेव प्रयत्नः तदेव च तद्धितान्तमास्यम्। यत् समानं तदाश्रयिष्यामः । किं सति भेदे ? सतीत्याह। सत्येव हि भेदे सवर्णसञ्ञ्ज्ञया भवितव्यम्। कुत एतत्। भेदाधिष्ठाना हि सवर्णसञ्ज्ञा। यदि हि यत्र सर्वं समानं तत्र स्यात्, सवर्णसञ्ज्ञावचनमनर्थकं स्यात् । यदि तर्हि सति भेदे किंचित्समानमिति कृत्वा सवर्णसञ्ज्ञा भविष्यति। शकार-छकारयोः षकार-ठकारयोः सकार-थकारयोः सवर्णसञ्ज्ञा प्राप्नोति। एतेषां हि सर्वमन्यत् समानं करणवर्जम्। एवं तर्हि प्रयतनमेव प्रयत्नः। तदेव हि तद्धितान्तमास्यम्। न त्वयं द्वन्द्वः आस्यं च प्रयत्नश्च आस्यप्रयत्नमिति। किं तर्हि? त्रिपदोऽयं बहुव्रीहिः - तुल्य आस्ये प्रयत्न एषामिति। अथवा पूर्वस्तत्पुरुषस्ततो बहुव्रीहिः - तुल्य आस्ये तुल्यास्यः। तुल्यास्यः प्रयत्न एषामिति। अथवा परस्तत्पुरुषस्ततो बहुव्रीहिः - आस्ये प्रयत्न आस्यप्रयत्नः। तुल्य आस्यप्रयत्न एषामिति। ॥ तस्य । तस्येति तु वक्तव्यम्। किं प्रयोजनम्? यो यस्य तुल्यास्यप्रयत्नः स तस्य सवर्णसंज्ञो यथा स्यात्। अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञो मा भूत्-इति । ॥ तस्यावचनं वचनप्रमाण्यात् ॥। तस्येति न वक्तव्यम्। अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः कस्मान्न भवति। वचनप्रामाण्यात्। सवर्णसञ्ज्ञावचनसार्मथ्यात्। यदि हि अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः स्यात् सवर्णसञ्ज्ञावचनमनर्थकं स्यात्। ॥ सम्बन्धिशब्दैर्वा तुल्यम् ॥। सम्बन्धिशब्दैर्वा पुनस्तुल्यमेतत्। तद्यथा - सम्बन्धिशब्दः मातरि वर्तितव्यम्। पितरि शुश्रूषितव्यमिति। न चोच्यते - स्वस्यां मातरि स्वस्मिन् पितरीति। सम्बन्धाच्चैतद् गम्यते या यस्य माता यश्च यस्य पितेति। एवमिहापि - तुल्यास्यप्रयत्नं सवर्णमित्यत्र सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद्गन्तव्यम् - यत्प्रति यत्तुल्यास्यप्रयत्नं तत्प्रति तत्सवर्णसञ्ञ्ज्ञं भवतीति। ॥ ऋकारऌकारयोः सवर्णविधिः । ऋकारऌकारयोः सवर्णसञ्ज्ञा विधेया। होतृ- ऌकारः होतृकार इति। किं प्रयोजनम्? अकः सवर्णे दीर्घ इति दीर्घत्वं यथा स्यात्। नैतदस्ति प्रयोजनम्। वक्ष्यत्येतत् - सवर्णदीर्घत्वे ऋति ऋ वा वचनम्। लृति लृ वा वचनमिति। तत्सवर्णे यथा स्यात्। इह मा भूत्। दध्य्ऌकारः मध्व्ऌकार इति । यदेतत् सवर्णदीर्घत्वे ऋतीति एतद् ऋतः इति वक्ष्यामि। ततः लृति। ऌकारे परतः ऌकारो वा भवतीति। ऋत इत्येव । तन्न वक्तव्यं भवति । अवश्यं तद् वक्तव्यम्। ऊकालोऽच् ह्रस्वदीर्घप्लुतसंज्ञो भवतीत्युच्यते। न च ऋकार ऌकारो वाऽजस्ति । ऋकारस्य ऌकारस्य चाच्त्वं वक्ष्यामि। तच्चावश्यं वक्तव्यम्। प्लुतो यथा स्यात्। होतृ- ऋकारः- होतॄकारः । होतॄ3कारः इति। होत्ऌकारः। होत्ऌकारः। होत्लृ3कारः इति । किं पुनरत्र ज्यायः ? सवर्णसञ्ज्ञावचनमेव ज्यायः। दीर्घत्वं चैव हि सिद्धं भवति। अपि च ऋकारग्रहणेन ऌकारग्रहणं संनिहितं भवति। यथेह भवति। ऋत्यकः खट्व ऋश्यः माल ऋश्यः। इदमपि सिद्धं भवति खट्व ऌकारो माल ऌकार इति। वा सुप्यापिशलेः । उपर्कारीयति, उपार्कारीयति। इदमपि सिद्धं भवति। उपल्कारीयति। उपाल्कारीयति । यदि तर्हि ऋकारग्रहणेन ऌकारग्रहणं संनिहितं भवति। उरण् रपरः ऌकारस्यापि रपरत्वं प्राप्नोति । ऌकारस्य लपरत्वं वक्ष्यामि। तच्चावश्यं वक्तव्यम्। असत्यां सवर्णसञ्ज्ञायां विध्यर्थम्। तदेव सत्यां रेफबाधनार्थं भविष्यति । इह तर्हि रषाभ्यां नो णः समानपदे इत्यत्र ऋकारग्रहणं चोदितम्। मातृणां पितृणामित्येतदर्थम्। तदिहापि प्राप्नोति कॢप्यमानं पश्येति । अथासत्यामपि सवर्णसञ्ज्ञायामिह कस्मान्न भवति प्रकॢप्यमानं पश्येति। चुटुतुलर्शव्यवाये न इति वक्ष्यामि। अपर आह त्रिभिश्च मध्यमैर्वर्गैर्लशसैश्च व्यवाये नेति वक्ष्यामि इति। वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्ते इति योसौ ऌकारे लकारस्तदाश्रयः प्रतिषेधो भविष्यति। यद्येवं नार्थो रषाभ्यां नो णत्वे ऋकारग्रहणेन। वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्त इति योऽयौ ऋकारे रेफस्तदाश्रयं णत्वं भविष्यति । Kashika ------- तुल्यशब्दः सदृशपर्यायः । आस्ये भवमास्यम्, ताल्वादिस्थानम्। प्रयतनं प्रयत्नः स्पृष्टतादिर्वर्णगुणः। तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसंज्ञो भवति। चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामाश्रीयन्ते। स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता चेति। अ अ अ इति त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते। तथेवर्णः। तथोवर्णः। तथा ऋवर्णः। ऌवर्णस्य दीर्घा न सन्ति। तं द्वादशप्रभेदमाचक्षते। सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि। अन्तःस्था द्विप्रभेदा रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च। रेफोष्मणां सवर्णा न सन्ति। वर्ग्यो वर्ग्येण सवर्णः। दण्डाग्रम्। खट्वाग्रम्। आस्यग्रहणं किम्? कचटतपानां तुल्यप्रयत्नानां भिन्नस्थानानां मा भूत्। किं च स्यात् ? तर्प्ता, तर्प्तुमित्यत्र **झरो झरि सवर्णे** (८.४.६५) इति पकारस्य तकारे लोपःस्यात् । प्रयत्नग्रहणं किम् ? इचुयशानां तुल्यस्थानानां भिन्नप्रयत्नानां मा भूत् । किं च स्यात् ? अरुश्श्च्योततीत्यत्र **झरो झरि सवर्णे**(८.४.६५) इति शकारस्य चकारे लोपः स्यात्॥ ऋकारऌकारयोः सवर्णसंज्ञा वक्तव्या॥ होतृ ऌकारः — होतृृकारः। उभयोर्ऋवर्णस्य ऌवर्णस्य चान्तरतमः सवर्णो दीर्घो नास्तीति ऋकार एव दीर्घो भवति। सवर्णप्रदेशाः — **अकः सवर्णे दीर्घः** (६.१.१०१) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा ।ऌतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ॥ जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ॥ Laghu Siddhanta Kaumudi ----------------------- ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। । अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्ठम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकाऽनुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। ≍क≍ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः। ≍प≍फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥ Laghu Shabdendushekhar ---------------------- **तुल्यास्यप्रयत्नं सवर्णम्** । तुल्यावास्यप्रयत्नौ यस्येत्यर्थः । आस्ये भवमास्यं, व्याख्यानात् । तच्च - वर्णोपयोगित्वात्स्थानमेव, प्रयत्नस्य पृथगुपादानात् । प्रकृष्टो यत्नः - आभ्यन्तरः । तस्य वर्णोत्पत्त्यव्यवहितप्राग्भावित्वरूपप्रकर्षत्वात् । जनकत्वं षष्ठ्यर्थः । तत्तत्कार्यगतभेदं स्थानेष्वारोप्य भेदघटिततुल्यत्वस्य निर्वाहः । वस्तुतः **सादृश्यं न भेदघटितम्** इति भाष्यसम्मतमिति न कश्चिद्दोषः । स्पष्टञ्चेदं भाष्ये । तदाह - **ताल्वादीति** । शिक्षायाङ्कण्ठादीनाङ्कण्ठत्वादिनैव स्थानतोक्त्या तद्रूपेणैवाऽऽस्यशब्देन ग्रहणमिति तद्भागभेदमादाय नोदात्तादिषु सावर्ण्यभङ्ग इति बोद्ध्यम् । यस्यैतद्द्वयं येन यदीयेनैतद्द्वयेन तुल्यमित्यर्थः । **यजुष्येकेषाम्** इति निर्देशाद्यावदास्यभवतुल्यत्वं ग्राह्यम्। अत एवैचो: सावर्ण्यमाशङ्क्य— **नैतौ तुल्यस्थानौ** इति भाष्ये समाहितम् । अत एव वलयोर्न सावर्ण्यम् । तेन **तद्वानासाम्** इत्यादौ **तोर्लि** (8.4.60) इति न । अत एव **प्रयत्नशब्देन यत्नमात्रग्रहणम्** इति पक्षे यत्किञ्चित्प्रयत्नभेदे यत्किञ्चित्प्रयत्नैक्यमादाय सवर्णसञ्ज्ञेत्यर्थो **झरो झरि सवर्णे** (8.4.65) इति सवर्णग्रहणेन ज्ञापकेन साधितो भाष्ये । तेन स्थानांशे **यावत्स्थानसाम्ये** इत्येव स्वारसिकोऽर्थ इति प्रतीयते । न च यावदास्यभवतुल्यत्वविवक्षणे प्रयत्नग्रहणं व्यर्थम्, प्रयत्नस्याप्यास्यभवत्वादिति वाच्यं, ह्रस्वदीर्घयोः सावर्ण्यानापत्तेः, तयोर्जनकानामास्यभवानां वायुसंयोगानामतुल्यत्वात् । तस्मादास्यभवानाङ्कण्ठादीनामेव ग्रहणमिति बोधनाय तत्सार्थक्यात् । आस्येति किम् ? तर्प्ता। **झरो झरि सवर्णे** (8.4.65) इति लोपो मा भूत्। प्रयत्नेति किम् ? वाक्श्चोतति। प्रेति किम् ? शचयोः श्वासाघोषविवाराख्यबाह्यप्रयत्नसाम्येन तत्रैव दोषात् । कस्य किं स्थानमित्याशङ्कायामाह- **अकुहेति** । यद्यपि सर्ववर्णोच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽपि तथा, अकारादीनामुच्चारणे तु नेति भावः कचयोस्तु न सावर्ण्यम्, यावत्स्थानसाम्याभावात्, भिन्नस्थानकथनवैयर्थ्यापत्तेश्च । अत्र कण्ठपदं कण्ठस्थानतत्समीपजिह्वामूलस्थानोभयपरं, तेन **कण्ठ्यावहौ**, **जिह्वामूले तु कुः प्रोक्तः** इति शिक्षया न विरोधः । जिह्वामूलीयपदस्य च- वर्णविशेषे रूढिरिति न व्यवहारातिप्रसङ्गः । अत एवायोगवाहेषु जिह्वामूलीयगणनं भाष्ये । तत्तद्वर्णोत्पत्तेः प्राक्तत्तत्स्थानादौ जिह्वास्पर्शाद्यनुभवेन तत्तद्वर्णानां तत्तत् स्थानत्वनिर्णयेऽप्यकुहेत्यादिकथनं साधारणधर्मबोधनायानुवादकं, न त्वेतदेव कण्ठादिस्थानविधायकमिति भ्रमितव्यम् । विसर्जनीयपदेनात्र साहचर्यादकाराश्रयस्य ग्रहणम् । अत एव **अयोगवाहा विज्ञेया आश्रयस्थानभागिनः** इति शिक्षया न विरोध: । दन्ता इति । दन्तसंयुक्तदेशा इत्यर्थः । अतो भग्नदन्तस्याप्युच्चारणं भवत्येव । **उश्च पश्च मायेते अनेन, तत्र भव** इति योगेनोपध्मानीयस्यौष्ठ्य त्वमित्याह - **उपपेति**। रूढत्वाच्च न व्यवहारातिप्रसङ्गः । **नासिका चेति** । चेन स्वस्ववर्गानुकूलं ताल्वादि गृह्यते। अत एवैषां प्रातिशाख्ये **नासिकायां भव** इत्यर्थकनासिक्यशब्देन व्यवहारः । यत्तु - **अनुस्वारयमानां च नासिकास्थानमिष्यते ।** (पा.शि. २२) इति शिक्षोक्तेरेषां नासिकाकरणम् । किञ्च - स्थानत्वे कङयो: सावर्ण्यानापत्तिः, यावत्स्थानैक्याभावात् । यत्किञ्चित्स्थानैक्येन तत्त्वे तु - ञमामपि परस्परं सावर्ण्यापत्तिरिति, तन्न । कण्ठादीनामपि करणत्वस्यैव **अस्यन्त्यनेन वर्णान्** इति भाष्यात्प्रतीतेः । स्थानत्वव्यवहारस्तु वर्णाभिव्यक्तिजनकताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वाऽऽरोपेण तत्तत्स्थानजिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादौ, तत्सम्बन्धजनकप्रयत्नविशेषे स्पृष्टतादौ च करणत्वव्यवहारः । वर्णाभिव्यक्त्यनन्तरभावी सावर्ण्यानुपयुक्त आन्तरतम्यपरीक्षोपयुक्तश्च कण्ठविवरादिनिष्ठविकासादेरास्यबहिर्देशावच्छिन्नकार्यस्य जनको यत्नो गुणशब्देनोच्यते । अकारादिनिष्ठानुनासिक्यस्य भेदकत्वाद्गुणस्येत्यादौ गुणत्वेन व्यवहारस्तु कण्ठाद्यवच्छिन्नवायुसंयोगेनोत्पन्नेषु नासावच्छिन्नवायुसंयोगेन तद्रूपधर्मोत्पत्त्या । एवञ्च नासिकायास्तत्र गुणजनकत्वादनुनासिकाकारादीनां नासिकास्थानं नोक्तं मूले । **एकोऽयमात्मोदकन्नाम गुणभेदादन्यत्वं तस्य भवति, अन्यदिदं शीतमन्यदिदमुष्णम्** इति दृष्टान्तपरभाष्येण तथैव प्रतीतेः । आत्माऽत्र द्रव्यम् । उदात्तत्वादीनां गुणत्वव्यवहारस्तु सावर्ण्यानुपयुक्तत्वाऽऽन्तरतम्यपरीक्षोपयोगित्वरूपसादृश्येनेति बोद्ध्यम् । ङादीनान्तु तद्गुणरहितस्वरूपानुपलम्भेन उभयावच्छेदेन वायुसंयोगोत्तरमेव स्वरूपोत्पत्त्या विनिगमनाविरहेणोभयोः स्थानत्वम् । **अनुस्वारयमानाञ्चे** इति शिक्षायां चेन ङादीनामपि सङ्ग्रह इति युक्तम् । अत एव **कण्ठ्योऽकार** इत्याद्युक्त्वा **नासिक्यान्नासिक्ययमानुस्वारानिति स्थानान्** इत्युक्तं प्रातिशाख्ये। **नासिक्या:- ङञणनमा** इति तद्व्याख्यातारः । कङयो: सावर्ण्यन्तु भवत्येव । इति वार्तिके — **किमास्योपादाने प्रयोजनम्** इति प्रश्ने **प्रयत्नविशेषणमास्योपादानम्** इत्युक्त्वा— तद्व्यावर्त्यत्वेन बाह्यप्रयत्नान् प्रदर्श्य — **यथा तृतीयास्तथा पञ्चमा आनुनासिक्यमेषामधिको गुण** इति भाष्येण तस्य बाह्यप्रयत्नत्वोक्त्याऽत्र सूत्रे नासिकाया आस्यशब्देन, तत्रत्यप्रयत्नस्य च प्रयत्नशब्देनाग्रहणबोधनात् । **नासिका आस्यबाह्या** इति वदतां मते तद्ग्रहणाभावाच्च । अत एव बाह्यप्रयत्नानुपक्रम्य — **अमोऽनुनासिका न ह्रौ नादिनो हझषः स्मृताः । ईषन्नादा यणश्चैव श्वासिनस्तु खफादयः ॥ ईषच्छ्वासांश्चरो विद्यात् …** (पा.शि. ३९, ४०) इत्युक्तं शिक्षायाम् । नादेति संवारघोषयोरुपलक्षणं श्वासेति विवाराघोषयोः । ह्रावित्युपलक्षणम् — ऐच: सर्वस्य प्लुतलृकारस्य च अनुनासिकस्यादर्शनादित्यलम् । एदैतोरित्यादौ लोकानुभवसिद्धार्थानुवादके तपरशास्त्राप्रवृत्त्या प्लुतानामपि तत्स्थानत्वं बोध्यम् । तथा च पाणिनीयशिक्षा — **कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठ्यातालव्यावो औ कण्ठोष्ठजौ स्मृतौ ॥** (पा.शि. 18), **अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु च ॥** (पा.शि. 13), ** हकारं पञ्चमैर्युक्तमन्तः स्थाभिश्च संयुतम् । उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥** (पा.शि. 16) इति । यत्तु — **दन्तोष्ठादि, समुदितं स्थानम्** इति तन्न। शिक्षायां **दन्त्योष्ठ्यः** **कण्ठ्यतालव्यौ**इत्यादौ **तत्र भव** (4.3.53) इत्यधिकारविहितयतः प्रत्येकमनुत्पत्त्यापत्तेः । **दन्तोष्ठ्यम्** इत्यादि त्वसङ्गतमेव, स्वाङ्गसमुदायस्य स्वाङ्गत्वाभाववच्छरीरावयवसमुदायस्य शरीरावयवत्वाभावात् । एतेन — **दन्तोष्ठरूपमतिरिक्तं स्थानम्** इत्यपास्तम् । **अष्टौ स्थानानि** इति प्रतिज्ञाविरोधाच्चेति दिक् । सूत्रे प्रशब्देन विलक्षणार्थबोधेऽपि लोके यत्नप्रयत्नयोः पर्यायतेति ध्वनयन्नाह - **प्रयत्नो द्विधेति** । क्वचिद्यत्न इत्येव पाठः । चतुर्धेति । यत्तु — **स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम् । तेभ्योऽपिविवृतावेङौ ताभ्यामैचौ तथैव च ॥** (पा.शि.21) इति शिक्षावाक्याद्विवृततरविवृततमयोः प्रतीत्या **नाज्झलौ** (1.1.10) इति सूत्रभाष्यादूष्मणामीषद्विवृतत्वस्य च प्रतीत्या चतुर्धेत्यसङ्गतमिति, तन्न । **नाज्झलौ** (1.1.10) इति सूत्रेण विवृतत्वव्याप्यानामेषां सवर्णसञ्ज्ञानुपयुक्तत्वबोधनमित्याशयात् । भाष्यमते तु सन्तु सप्त प्रयत्नाः । एवञ्चैदैतोरोदौतोश्च न सावर्ण्यप्रसक्तिः, प्रयत्नभेदादिति योद्ध्यम् । **नाज्झलौ** (1.1.10) इति सूत्रमपि प्रयत्नभेदप्राप्तसावर्ण्याभावानुवादकं सत्तस्यैव बोधकम् । अत एव भाष्ये तन्न वक्तव्यमिति नोक्तम् । स्पृष्टादीनामाभ्यन्तरत्वं त्वोष्ठप्रभृतिकाकलकपर्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां स्पर्शेषत्स्पर्शदूरावस्थानसमीपावस्थानरूपाभ्यन्तरकार्यकारित्वाद्वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च । तत्र कस्यचिदुच्चारणे सम्यक्स्पर्शः कस्यचिदीषदिति शिक्षाकारोक्तिमनुभवञ्चानुसृत्य विवेक्तव्यम् । **प्रयतनम्** इति नपुंसके भावे ल्युट् । **प्रयत्नम्** इत्यपपाठः, नङन्तस्य पुंस्त्वात्। तथा च शिक्षा — **स्वराणामृष्मणाञ्च** इत्याद्यनन्तरम् — **अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ताः** (पा.शि. 38) इति । अचोऽस्पृष्टाः — स्पर्शाभावरूपविवृतत्ववन्तः 'यणस्त्वीषदि' त्यनेन- तेषामीषत्स्पृष्टत्वमीषद्विवृतत्वञ्च बोधितम् । नेम इत्यर्धे । तेन शलामीषद्विवृतत्वं यणपेक्षयाऽधिकविवृतत्वञ्चेति बोद्ध्यम् । अत्र शिक्षोक्तव्याप्यधर्मवतां व्यापकधर्ममादाय न सावर्ण्यमिति यणां चवर्गादिभिर्न सावर्ण्यम् । तेनाञ्चित इत्यादौ न यादिः परसवर्णः । **विवृतमेवेति** । प्रक्रियादशायां विवृतत्वम्प्रतिज्ञेयमित्यर्थः । तेन दण्डाढकादो दीर्घसिद्धि । अन्यथा संवृतस्य ह्रस्वाकारस्य विवृतेन दीर्घेण सावर्ण्याभावात्स न स्यादिति भावः दीर्घाकारस्य विवृततरत्वन्तु पाणिनिशिक्षायामनुक्तत्वान्नैतच्छा स्त्रप्रक्रियोपयोगीति दिक् । तस्य प्रयोगे संवृतत्वे मानमाह - **अ अ** (8.4.68) । Balamanorama ------------ **तुल्यास्यप्रयत्नं सवर्णम्** - अथअणुदित्सवर्णस्य चाप्रत्ययः॑ इति अ इ उ इत्यादिसंज्ञां वक्ष्यन्सवर्णसंज्ञामाह — तुल्यास्य । आस्यं = मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादास्यशब्दोऽत्र न मुखमात्रपरः । किन्तु आस्ये मुखे भवमास्यं = ताल्वादिस्थानम् । 'शरीरावयवाद्यत्' इति भवार्थे यत्प्रत्ययः । 'यस्येति च' इति प्रकृत्यन्त्यस्य अकारस्य लोपः । प्रकृष्टो यत्नः प्रयत्नः । आस्यं च प्रयत्नश्च-आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावः । तदाह — ताल्वादिस्थानमित्यादिना । मिथ इति । परस्परमित्यर्थः । कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णाति — अकुहेत्यादिना । 'अ' इत्यष्टादश भेदा गृह्यन्ते, 'कु' इतदि कादिपञ्चकात्मकः कवर्गः । न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र 'अ' इत्यष्टादशभेदानां ग्रहणमिति वाच्यम् । लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तेः । एवमग्रेऽपि कथञ्चित्समाधानं बोध्यम् । अश्च कुश्च हश्च विसर्जनीयश्चेति विग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः । इचुयशेति । इ इत्यष्टादश भेदाः । चु इति चवर्गः । इश्च चुश्च यश्च शश्चेति विग्रहः । तालु = काकुदम् ।ऋटुरषेति । ऋ इत्यष्टादश भेदाः । टु इति टवर्गः । आ च टुश्च रश्च षश्चेति विग्रहः । ऋ शब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत् । लृतुलशेति । लृ इत्यस्य द्वादश भेदाः । तु इति तवर्गः । आ च तुश्च लश्च सश्चेति विग्रहः । लृशब्दस्यापि आ इत्येव प्रथमैकवचनान्तम् । आ अलौ अलः । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः । अन्यथा भग्नदन्तस्य तदुच्चारणाऽनुपपत्तेः । उपूपेति । उ इत्यष्टादश भेदाः । पु इति पवर्गः उश्च पुश्च उपध्मानीयश्चेति विग्रहः । उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति । ञमङणनेति । ञश्च मश्च ङश्च णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः ।एदैतोरिति । एच्च ऐच्च एदैतौ । तपरकरणमसंदेहार्थम् । नतु 'तपरस्तत्कालस्य' इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि संग्रहः । कण्ठश्च तालु चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवत्त्वं नपुंसकत्वं च । ओदौतोरिति । ओच्च औच्च ओदौतौ । तपरकरणं पूर्ववदसंदेहार्थमेव । कण्ठश्च ओष्टौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवद्भावो नपुंसकत्वं च । वकारस्येति । दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः । एकवत्त्वं नपुंसकत्वं च जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमग्रे व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति । इति = एवंप्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः ।ननु किमिह तुल्यास्यसूत्रे यत्कचित्स्थानसाम्यं विवक्षितम् , उत यावत्स्थानसाम्यम् । न तावदाद्यः, तथा सति इकारस्य एकारस्य च तालुस्थानकतया सावण्र्यापत्तौभवत्येवे॑त्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः । न च एकारस्य वर्णसमाम्नाये पाठसामर्थ्यादिकारेण न सावण्र्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात् । किं च वकारलकारयोर्दन्तस्थानसाम्येन सावण्र्यापत्तौ 'तोर्ल' इत्यत्र लकारेण वकारस्यापि ग्रहणात्तद्वानित्यत्र दकारस्य परसवर्णापत्तिः । 'यवलपरे यवला वा' इत्यत्र लकारग्रहणं तु यथासंख्यार्थं भविष्यति । न द्वितीयः, तथा सति कङयोः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावण्र्याभावापत्तौचोः कुः॑, क्विन्प्रत्ययस्य॑ इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङित्यादौ नुमो नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन ङकाराऽनापत्तेः । तस्मात्स्थ्ानसाम्यं दुर्निरूपमिति चेत्, अत्र ब्राऊमः — यावत्स्थानसाम्यमेव सावण्र्यप्रयोजकम् । एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावण्र्यम् । वलयोश्च न सावण्र्यम् । वकारस्य ओष्ठस्थानाधिक्यात् । एवं च ' तद्वानासाम्' 'यजुष्येकेषाम्' इत्यादिनिर्देशा उपपन्नाः । ङकारस्य नासिका स्थानाधिक्येऽपि ककारेण सावण्र्यमस्त्येव, आस्यमवस्थानसाम्यस्यैव सावण्र्यप्रयोजकत्वात्, नासिकायाश्च आस्यानन्तर्गतत्वात् । उक्तं च भाष्ये-किं पुनरास्यं, लोकिकमोष्ठात्प्रभृति प्राक्काकलकात् इति ।काकलको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः॑ इति कैयटः । तस्मादास्यभवयावत्स्थानसाम्यं सावण्र्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः ।ननु तुल्यास्यसूत्रे प्रयत्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम् । तत्राभ्यन्तरत्वविशेषणं किमर्थम्, व्यावर्त्त्याऽभावादित्यत आह-यत्नो द्विधेति । यत्नानामाभ्यन्तरत्वं बाह्रत्वं च वर्णोत्पत्तेः प्रागूध्र्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम् । आद्य इति । आभ्यन्तयत्न इत्यर्थः । कथं चातुर्विध्यमित्यत आह-स्पृष्टेति ।कस्य कः प्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थापकशिक्षावचनानि पठति — तत्रेति । तेषु मध्य इत्यर्थः । प्रयतनमिति । प्रयत्न इत्यर्थः । स्पर्शादिशब्दानग्रे व्याख्यास्यति । ह्रस्वस्यावर्णस्य संवृतमित्यन्वयः । एतावदेव शिक्षावचनम् । नन्वेवं दण्ड-आढकमित्यत्र अकारस्य च विवृतसंवृतप्रयत्नभेदेन सावण्र्याऽभावात्सवर्णदीर्घो न स्यादित्यत आह-प्रयोग इति । शास्त्रीयप्रक्रियाभिः परिनिष्ठितानां रामः कृष्ण इत्यादिशब्दानां प्रयोगे क्रियमाण एव ह्रस्वस्याऽवर्णस्य संवृतत्वमित्यर्थः । प्रक्रियेति । शास्त्रीयकार्यप्रवृत्तिसमये तु ह्रस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः । शिक्षावचनसिद्धं स्वाभाविकं ह्रस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये ह्रस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाठतमिच्यादौ सवर्णदीर्घादिकार्यं निर्बाधकमिति ऐउणिति सूत्रभाष्ये स्पष्टम् । एवंचह्रस्वस्याऽवर्णस्य संवृत॑मिति शिक्षावचनं परिशेषात्परिनिष्ठतदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः । अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि संमत इत्याह-एतच्चेति॥ तदेवोपपादयितुं प्रतिजानीते-तथा हीति । यथा एतज्ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः । Tattvabodhini ------------- **तुल्यास्यप्रयत्नं सवर्णम्** - तुल्यास्य । आस्ये भवमास्यंशरीरावयवाद्यत् इत्यभिप्रेत्याह-ताल्वादीति॥ आभ्यन्तरेति । एतच्च प्रशब्दबलाल्लभ्यते । ओष्ठात्प्रभृति प्राककाकलकादास्यम् । तुल्यास्यं किम् , तर्प्ता । अत्र पकारस्य तकारे परेझरो झरि॑ इति लोपो मा भूत् । प्रयत्नग्रहणं किम्, वाक्श्चोतति । अत्र शस्य लोपो न॥ ञमङणनानामिति । नासिका चेति । चकारेण स्ववर्गानुकूलं ताल्वादि समुच्चीयते॥ एदैतोरित्यादौ तपरत्वमसंदेहार्थं, न तत्कालग्रहणार्थम् । तेन प्लुतस्यापि संग्रहः॥ चतुर्धेति । निष्कर्षपक्षे तु पञ्चधा, ऊष्माणामीषद्विवृतप्रयत्नाभ्युपगमात्॥ स्पृष्टेषत्स्पृष्टेति । एतेषामाभ्यन्तरत्वं, वर्णोत्पत्तिप्राग्भावित्वात् । तथाहि-नाभिप्रदेशात्प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमाक्रामन्नुरःप्रभृतीनि स्थानान्याहन्ति, ततो वर्णस्य तदभिव्यञ्जकध्वनेर्षा उत्पत्तिः । तत्रोत्पत्ते प्राग्यदा जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता, ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता, समीपावस्थानमात्रे संवृतता, दूरत्वे विवृतता । अत एव इचुयशानां तालव्यत्वाऽविशेषेऽपि तालुस्थानेन सह जिह्वाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत्सपर्शः , शकारेकारयोस्तु दूराऽवस्थितिरित्याद्यनुभवं, शिक्षाकारोकिंत चानुसृत्य विवेचनीयम् । विवारसंवारादयस्तु वर्णोत्पत्तेः पश्चान्मूध्न प्रतिहते निवृत्ते प्राणाख्ये वायावुत्पद्यन्त इति बाह्रा इत्युच्यन्ते । गलबलिस्य संकोचात्संवारः, तस्यैव विकासाद्विवारः । एतौ च संवृतविवृतरूपाभ्यामाभ्यन्तराभ्यां भिन्नावेव । तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम् । Padamanjari ----------- तुल्यशब्दोऽयं यद्यपि तुलया संमितं तुल्यमिति ङौवयोधर्म' इति यतमुत्पाद्य व्युत्पाद्यते, तथापि व्युत्पत्यर्थमेव तुलोपादीयते, रूढशब्दस्त्वयं प्रवीणः, प्रतिलोमादिवदित्याह-ऽतुल्यशब्दः सदृशपर्यायऽ इति । ननु ङौवयोधर्म' इत्यत्र वक्ष्यति - 'यथा तुला द्रव्यान्तरं परिच्छिनति, तथा तुल्यामपि सादृश्येन परिच्छिनतीत्येततुलया तुल्यस्य साधर्म्यम्' इति, सत्यम्; न ह्यएवं लौकिकाः प्रतियन्ति । तथा हि -'तुल्य' इत्युक्ते शदृश' इति प्रत्ययो भवति, न तु कश्चिदवयवार्थः प्रतीयते । ऽआस्ये भवमास्यमिऽति । लोकसिद्धं तावदास्यमोष्ठात्प्रभृति प्राक्काकलकाद्-अस्यन्ते क्षिप्यन्तेऽनेन वर्णा इति कृत्वा । काकलकं नाम ग्रीवाया उन्नतप्रदेशः । इह तु तस्मिन्नास्ये भवमास्यमित्यर्थः । 'दिगादिभ्यो यत्' 'शरीरावयवाच्च' इति यत्प्रत्ययः । किं पुनस्तदित्याह - ऽताल्वादिस्थानमिऽति । यस्मिन्वर्णा निष्पद्यन्ते तत् स्थानम् । आदिश्ब्देन नासिकादीनां ग्रहणम् । नासिकापि न बाह्या वर्णोत्पतिनिमितम्, किं तर्हि ? अन्तरास्ये चर्मविततमस्ति, पणवचर्मवत्, तत्संबद्धा रेखा नासिका, तस्यां वायुनाऽभिहतायां वर्णोत्पतिः । यदि पुनर्लौकिकमास्यं गःह्यएत, तदा तुल्यास्यप्रयत्नमिति द्वन्द्वगर्भो बहुव्रीहिः स्यात्-आस्यं च प्रयत्नश्च आस्यप्रयत्नौ, तौ तुल्यौ यस्येति; त्रिपदो वा बहुव्रीहिः - तुल्य आस्य प्रयत्नो यस्येति । तत्र द्वन्द्वगर्भे आस्यग्रहणं व्यर्थं स्यात्, सर्वेषां हि ततुल्यम् । विसर्जनीयस्यैकीयमतेनोरस्यत्वात् सावर्ण्याभावेऽपि न दोषः, त्रिपदे तु बहुव्रीहावास्येन प्रयत्नस्य विशेषितत्वादास्याद्वाह्याः प्रयत्ना हापिता भवन्ति, किन्तु ताल्वादिस्थानं तुल्यत्वेनाविशेषितं स्यात् । ततश्च भिन्नस्थानानामपि जबगडदानां सवर्णसंज्ञा प्राप्नोति । तत ऊर्ग्ज इति 'झरो झरि' इति गकारस्य जकारे लोपः स्याद् । अतस्तद्धितान्तस्यैव ग्रहणम् । तत्रापि यदि द्वन्द्वगर्भो बहुव्रीहिः स्यात्, स्थानेन प्रयत्नो न विशेषितः स्यात्; ततश्च ककारङ्कारयोर्मिथः सवर्णसंज्ञा न स्यात्; बाह्यप्रयत्नस्य भिन्नत्वात् । ततश्च शङ्कितेति 'अनुस्वारस्य ययि परसवर्णः' इति ङ्कारो न स्यात् । अथ सत्यपि बाह्यप्रयत्नभेदे आभ्यन्तरस्य प्रयत्नस्याभेदमाश्रित्य संज्ञा स्यात्, चकारशकारयोरपि सत्याभ्यन्तरभेदे बाह्याभेदमाश्रित्य सवर्णसंज्ञा प्राप्नोति । ततश्च अरुश्च्योततीति वक्ष्यमाणप्रत्युदाहरणं नोपपद्यते इतीमं दोषं दृष्ट्वा त्रिपदोऽयं बहुव्रीहिरिति दर्शयति - ऽतुल्य आस्ये प्रयत्नो यस्येऽति । तद्धितान्त आस्यशब्दो न स्वाङ्गवाच्येवेति'अमूर्द्धमस्तकात्' इत्यलुङ्न भवति । नन्वस्मिन्नपि पक्षे भिन्नविभक्तिकत्वात् प्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं स्याद्; नैवात्रास्यं तुल्यतया विशेष्यते, भेदनिबन्धना हि तुल्यता । न च कखगघङं भिन्नं स्थानम्, एकत्वात्कण्ठस्य, किन्तु तद्धितान्तस्यास्यशब्दस्याश्रयणसामर्थ्यादस्य इत्येकत्वं विवक्षितम् । तेनैकस्मिन्नेव ताल्वादिके स्थाने यः प्रयत्नः, स तुल्यो ययोरित्याश्रयणान्न कश्चिद्दोषः । ऽसमानजातीयं प्रतीऽति । एतच्च संज्ञाविधानसामर्थ्याल्लभ्यते, अन्यथा यत्किञ्चनवर्णापेक्षया तुल्यास्याप्रयत्नत्वेन सवर्णत्वे लब्धे तदाश्रयमन्यस्यापि कार्यं स्यात्, सवर्णसंज्ञाविधानमनर्थकं स्यात् । न च रेफोष्मनिवृत्यर्थं वचनम्; रेफस्यापि रेफः सवर्ण एव, एवमूष्मस्वपि द्रष्टव्यम् । संबन्धिशब्दत्वाद्वा सम्बन्धिशब्दो हि तुल्यास्यप्रयत्नशब्दः, ततश्च यथा तुल्याय कन्या दातव्येत्युक्ते दात्रा तुल्यायेति गम्यते, तथेहापि । अथ वा, महती संज्ञा क्रियते; अन्वर्था यथा विज्ञायेत-समानएऽस्य वर्णः सवर्ण इति । यदि च समानजातीयमेव प्रति सवर्णसंज्ञा भवति, एवं समानोऽस्य वर्णो भवति । ऽचत्वारऽ इत्यादि । द्विविधाः प्रयत्नाः-बाह्याः, आभ्यन्तराश्च । तत्राभ्यन्तराश्चत्वारो वृतौ दर्शिताः । आभ्यन्तरत्वं पुनरेषाम्-स्थानकरणव्यापारेण; उत्पत्तिकाल एव भावात् । स्थानं ताल्वादि, करणं जिह्वाया अग्रोपाग्रमध्यमूलानि । बाह्याः पुनरेकादश-विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदातः, अनुदातः, स्वरितश्चेति । बाह्यत्वं पुनरेतेषाम् - वर्णनिष्पतिकालादूर्ध्वं वायुवशेनोत्पतेः । तत्र स्पृष्टकरणाः स्पर्शाः, कादयो मावसानाः स्पर्शाः । स्पृष्ट्ंअ स्पृष्टतागुणः, करणं कृतिरुच्चारणप्रकारः, स्पृष्टतानुगतं करणं येषां ते तथोक्ताः । एवमन्यत्रापि - ईषत्स्पृष्टकरणा अन्तःस्थाः; यरलवा अन्तःस्थाः । विवृतकरणा ऊष्माणः स्वराश्च; शपसहा ऊष्माणः, स्वराः सर्व एवाचः । वर्गाणां प्रथमद्वितीयाः; शषसविसर्जनीयजिह्वामूलीयोपध्मानीयाः; यमौ च प्रथमद्वितीयौ; विवृतकण्ठाः, श्वासानुप्रदानाः अघोषाः; वर्गयमानां प्रथमेऽल्पप्राणाः, इतरे महाप्राणाः । वर्गाणां तृतीयचतुर्थाः, अन्तःस्थाः, हकारानुस्वारौ,यमौ तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तश्च । वर्गयमानां तृतीया अन्तःस्था अल्पप्राणाः, इतरे महाप्राणाः । यथा तृतीयास्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः । तत्र यमा नाम वर्गेष्वादितश्चतुर्णां पञ्चमेषु परतः त एव नासिक्या भवन्ति । तद्यथा - पलिक्रीरिन्, चख्नतुः, आग्मन्नायः, जघ्नतुः, अप्नस्वतीमित्यादि? । य एते द्विविधाः प्रयत्नाः, तेषामिह सवर्णसंज्ञायामाभ्यन्तराः स्पृष्टतादयश्चत्वार एवाश्रीयन्ते, न विवारादयो बाह्याः; आस्यग्रहणेन तेषां निवर्तितत्वात् । अ अ अ इत्यादि । अत्र सवर्णसंज्ञो भवतीति प्रकृतं बहुवचनान्तं विपरिणतमनुषज्यते, त्रयोऽकारा मिथः सवर्णंसंज्ञा भवन्तीत्यर्थः । कथं त्रयोऽकाराः, यावता प्रत्युच्चारणं भेदेऽनन्ताः, अभेदे त्वेक एव ? तत्राह - ऽउदातेऽति । अनेन प्रकारेण त्रय इत्यर्थः । एवं च 'त्रयः' इत्यस्य 'त्रिविधा'इत्यर्थो भवति । तत्राकुहविसर्जनीयाः कण्ठयाः, इचुयशास्तालव्याः, उपूपध्मानीया ओष्ठयाः, ऋटुअरषा मूर्द्धन्याः, लृतुलसा दन्त्याः, एऐ कण्ठ।ल्तालव्यौ, ओऔ कण्ठ।लेष्ठयौ, वकारो दन्तोष्ठयः-इत्येवं तुल्यस्थानप्रयत्नाः सर्वेऽकारादयो मिथः सवर्णसंज्ञा भवन्तीति । ऽअन्तःस्था । द्विप्रभेदाऽ इति । अत्रापि पूर्ववदनुषङ्गः, अन्तःस्था इत्युक्तेऽपि रेफनिवृत्यर्थं स्वरूपेण पठति । ऽयवला ऽइति । ऽरेफोष्मणां सवर्णा न सन्तीऽति । विजातीयाभिप्रायमेतत् । सजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नास्सवर्णा भवन्त्येव । तत्र रेफस्य तावद्यवला भिन्नस्थाना ऋटुअरषा भिन्नप्रयत्ना अन्ये भिन्नस्थानप्रयत्नाः । एवमूष्मणामपि सवर्णाभावो वेदितव्यः । ऽवर्ग्यऽ इत्यादि । वर्गे भवो वर्ग्यः, दिगादित्वाद्यत् । ऽवर्ग्येणऽ - स्ववर्गान्तःपातिना । तद्यथा ककारः खकारेण । ऽतर्प्तेऽति । 'तृप् प्रीणने' । ऽइचुयशानामिऽति । एषां मध्ये येषां प्रसङ्गः, तेषां मा भूदित्यर्थः । ऽअरुश् श्च्योततीऽति । 'श्च्युतिर् क्षरणे' । अरुःशब्दस्य रुत्वविसर्जनीययोः 'वा शरि' इति सकारः, तस्यापि श्चुत्वे शकारः । ऽऋकारऌकारयोरिऽति । स्थानभेदान्न प्राप्नोतीत्यारम्भः । श्रुतत्वाच्चानयोरेवमिथः सवर्णसंज्ञा विधीयते, न त्वेतयोरन्येन सह । ऽहोतृकारऽ इति । कथं पुनरत्र समुदायिनोऽन्तरतमो भवति न समुदायस्य, तत्रापि ऋकारस्यैव न ऌकारस्येत्यत आह-ऽउभयोरिऽत्यादि । उभयोरन्तरतमो दीर्घो न सम्भवति, ऌकारस्यापि दीर्घो न सम्भवतीत्यत आञ्कार एव भवत्युभयोरित्यर्थः । ननु च नैतत्सवर्णसंज्ञायाः प्रयोजनम्, कथम् ? 'अकः सवर्णे' इत्यत्र तु वक्ष्यति 'ऋति ऋ वा वचनम्, लृति लृ वा वचनम्' इति । तत्र चायमर्थः-अकां सवर्णे ऋति परतो वा ऋ भवति; द्विमात्रोऽयम्, मध्ये द्वौ रेफौ तयोरेका मात्रा,अभितोऽज्भक्तेरपरा, ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदादृकारेणाग्रहणाद् अनण्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोऽयं विधीयते । लृति लृ वा वचनमित्ययमपि द्विमात्र ईषत्स्पृष्टश्च, मध्ये द्वौ लकारौ, तयोरेका मात्राऽभितोऽज्भक्तेरपरा । पूर्ववदप्राप्तौ विधीयते । तत्र ऋति ऋ वा वचनमित्यत्र वाशब्दो दीर्घस्य समुच्चयार्थः, तेनाप्राप्त एव दीर्घो भविष्यति । ननु यद्यविधायैव सवर्णसंज्ञां तदुच्यते, ततोऽक इति सम्बन्धादङ्मात्रस्य लृति तत्कार्य स्याद् दध्य्ऌकारो मध्व्ऌकार इति, संज्ञाविधाने तु ऋकार ऋकारस्यैव सवर्ण इति तत्रैव व्यवस्थितं भवति । तस्मादविधेया सवर्णसंज्ञा ? न विधेया, यदेतद् ऋतीति 'एतदृत इति वक्तव्यम्, सवर्ण इत्येव, ऋकारस्य ऋकार एव सवर्णः' इति ऋत्येव भविष्यति । तत लृति, ऋत इत्येव । इदं चासवर्णार्थम्, तेन लृति रूपद्वयं सिद्धम्-होतृकारः, होत्ऌकार इति । तन्न वक्तव्यं भवति । कथम् ? ऋ वा वचनम्, लृ वा वचनमिति ब्रुवतापि तयोरच्त्वं वक्तव्यम्; अन्यथा विधानमात्रमनयोः स्याद्, न त्वच्कार्यः प्लुतः । सति त्वच्त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद् ग्रहणे सति प्लुतसंज्ञा भवतीति प्लुतसिद्धिः । एवं च होतृ ऋकार इति ऋकारयो रेफद्वययुक्तत्वाद्विवृतत्वाच्च कदाचिद्रेफद्वययुक्त ऋ भविष्यति, कदाचिद्विवृतः शुद्धो दीर्घः । ऌकारेऽपि कदाचिदृकारान्तरतम ऋकारः, कदाचिद् ऌकारान्तरतम ऌकार इति, सत्यम्; सवर्णसंज्ञायां तन्न वक्तव्यं भवति, तद्वोच्येत, इदं वा, को न्वत्र विशेषः । इदं वाऽवश्यं वक्तव्यम्, इदमपि सिद्धं भवति 'ऋत्यकः' - खट्वाऌकारः, मातृऌकारः । 'वा सुप्यापिशलेः'-उपऌकारीयति, उपाल्कारीयतीति । ऋदिताम्लृदितां च धातूनां पृथगुपदेशसामर्थ्यादनुबन्धकार्याणअमसङ्करः ॥ Nyaas ----- तुलया सम्मितं तुल्यमिति `नौवयोधर्म` (4.4.91) इत्यादिना यतमुत्पाद्य तुल्यशब्दो व्युत्पाद्यते। न च प्रयत्नस्य तुलया सम्मितत्वं सम्भवति, ततश्चासम्भवद्विशेषणमिति यश्चोदयेत्, तं प्रत्याह- `तुल्यशब्दः` इत्यादि। एवं मन्यते-व्युत्पत्त्यर्थं तु केवलं तुलोपादमते, न त्वत्र तुलार्थो विद्यते, न वासम्मितार्थः। सदृषपर्यायो ह्रयं तुल्यशब्दः। तथा हि- `तुल्य` इत्युक्ते `सदृश` इति पर्यायो भवति, न तु तुलया सम्मित इति। आस्यशब्दोऽयं ण्यदन्तोऽप्यस्ति। अस्यतेक्षिप्यतेऽन्नमनेनेति **कृत्यल्युटो बहुलम्** (3.3.113) इति करणे ण्यत्। आस्यम्- मुखम्। तत्पुनः ओष्ठात्प्रभृति प्राक् काकलकात्। काकलकं नाम ग्रीवायामुन्नतप्रदेशः, लोके यः कण्ठमणिः इत्युच्यते। तद्धितान्तोऽप्यास्यशब्दोऽस्ति- आस्ये भवमिति, **शरीरावयवाच्च** (4.3.55) इति यति कृते, **यस्येति च** (6.4.148) इत्यकारलोपे **हलो यमां यमि लोपः** (8.4.64) इति यलोपे च कृते `आस्यम्` इति। एतच्च मुखान्तर्वर्त्तिनां ताल्वादीनां वाचकम्। तत्र यदि पूर्वस्यास्यशब्दस्येदं ग्रहणंस्यात्, कचटतपानामपि सवर्णसञ्ज्ञा स्यात्, ण्यदन्तस्यास्यशब्दस्य वाच्येऽर्थेतेषां तुल्यत्वात् प्रयत्नविषयस्य। इममतद्धितान्तस्यास्यशब्दस्य ग्रहणे दोषं दृष्ट्वा तद्धितान्तस्येदं ग्रहणमिति दर्शयन्नाह- `आस्ये भवमास्यम` इति। किं पुनस्तदित्याह- `ताल्वादिस्थानम` इति। यस्मिन् वर्णा निष्पाद्यन्ते, तत् स्थानम्। आविशब्देननासिकादीनां ग्रहणम्। ननु च नासिका मुखाद्वहिर्वृत्तिरास्यं न भवति? नैतदस्ति; नहि मुखाद्बहिर्वर्त्तिनी नासिकेयं विवक्षिता, तस्यां वर्णानामनिष्पत्तेः। का तर्हि? अन्तरास्ये चर्म विततमस्ति पणवचर्मवत्, तत्सम्बद्धा रेखा, यस्यां वायुनाभिहन्यमा-नायां वर्णा निष्पद्यन्ते सेह नासिका विवक्षिता। कथं पुनर्विज्ञायते तद्धितान्तस्यास्यशब्दस्येदं ग्रहणमिति? आस्यग्रहणसाथ्र्यात्। यदि ह्रतद्धितान्तस्य ग्रहणंस्यात्, आस्यग्रहणमनर्थकं स्यात्। सर्वेषामेव हि तद्वाच्य एवार्थे प्रयत्नस्तुल्यः।नास्त्येव हि सः, यस्य व्यवच्छेदार्थमास्यग्रहणं स्यात्। ननु च विसर्जनीयस्य सत्य-सति वा सवर्णत्वे प्रयोजनमस्ति, नापि दोषः।`स्पृष्टतादिः` इति। आदिशब्देन ईषत्स्पृ-ष्टतादीनां ग्रहणम्। `वर्णगुणः` इति। अकारादीनां वर्णानां धर्म इत्यर्थः।`तुल्य आस्ये प्रयत्नो यस्य` इति। एतेन तुल्यास्यप्रयत्नशब्दस्त्रिपदोऽयं बहुव्रीहिरिति दर्शयति। व्याधिकरणानामपि गमकत्वनाद्बहुव्रीहिर्भवत्येव; यथा -`कण्ठेकालः, उरसिलोमा` इति। अथ द्वन्द्वगर्भबहुव्रीहिः कस्मान्नाश्रीयते- आस्यं च प्रयत्नश्च आस्यप्रयत्नौ,तौ तुल्यौ यस्य तत् तुल्यास्यप्रयत्नमिति? एवं मन्यते-द्वन्द्वगर्भबहुव्रीहावाश्रीयमाणे ताल्वादिना स्थानेन प्रयत्नो न विशेषितः स्यात्। ततश्च ककारङकारयोर्मिथः सवर्णसञ्ज्ञा न स्यात्, बाह्रस्य प्रयत्नस्य भिन्नत्वात्। ककारस्य विवृतकण्ठत्वादिर्बाह्रः प्रयत्नः। ङकारस्य संवृतकण्ठत्वादिः। असत्यां च सवर्णसञ्ज्ञायां शङ्कितेत्यत्र **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति ङकारो न स्यात्। अथ सत्यपि बाह्रस्य प्रयत्नस्य भेद आभ्यन्तरः स्पृष्टताख्योऽनयोस्तुल्यः प्रयत्नः, तं समाश्रित्यसवर्णसञ्ज्ञा भविष्यति? यद्येवम्, शकारचकारसयोरपि सत्यप्याभ्यन्तरयोर्विवृतास्पृष्टतयोः प्रयत्नयोर्भेदे योऽनयोर्बाह्रः प्रयत्नस्तुल्यो विवृत्कण्ठत्वादिस्तदाश्रया सवर्णसञ्ज्ञा स्यात्। ततश्च `अरुश्च्योतति` इति वक्ष्य-माणं प्रत्युदाहरणं नोपपद्यते।थ त्रिपदे तु बहुव्रीहौ ताल्वादिस्थानेन प्रयत्नोविशिष्यते। तेन बाह्रं प्रयत्नमुत्सृज्याभ्यन्तर एव स्पृष्टतादिर्गृह्रते। स एव हि ताल्वादावास्ये सम्भवति, नेतरः। आभ्यन्तरस्य प्रयत्नस्य ग्रहणे सति सत्यपि बाह्र-प्रयत्नभेदे भतत्येव ककार ङकारयोः सवर्णसञ्ज्ञा; आभ्यन्तरप्रयत्नस्य तुल्यत्वात्,तस्यैव चेह ग्रहणात्। न च चकारशकारयोः सत्यपि बाह्रस्य प्रयत्नस्य तुल्यत्वे सवर्णसञ्ज्ञा प्रसजति; तस्येहाग्रहणात्, यस्य च ग्रहणं तस्य चासमानत्वात्। तस्यात् त्रिपद एव बहुव्रीहिराश्रयितुं युक्तः; न द्वन्द्वगर्भ इति। यदि तर्हि त्रिपदो बहु-व्रीहिराश्रीयते, भिन्नविभक्तिकत्वादप्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं भवति, ततश्च भिन्नस्थानानामपि सवर्णसञ्ज्ञा प्राप्नोति? नैष दोषः। यदाधेयं प्रति यदधिकरणमुपदीयते, तदाधेयतुल्ययैव तत् तुल्यमिति विज्ञायते। तथा हि- `देवदत्तयज्ञदत्तयोस्तुल्यं कांस्यपात्र्यां भोजनम्` इत्युक्ते कांस्यपात्र्यपि तयोस्तुल्येतिगम्यते। यं प्रति यस्तुल्यास्यप्रयत्नः, स तमेव प्रति सवर्णसञ्ज्ञो भवतीत्येषोऽ-र्थो यतो वचनाल्लभ्यत इह तन्नास्ति। ततश्च यो यं प्रति तुल्यास्यप्रयत्नः, स ततोऽ-न्यमपि प्रति सवर्णसञ्ज्ञः स्यादिति चोद्यमाशङ्क्याह- `समानजातीयं प्रति` इति। समानजातीयो यं प्रति यस्तुल्यास्यप्रयत्नः, तं प्रति स सवर्णसञ्ज्ञो भवति, न ततोऽन्यम्। एतच्च तुल्यास्यप्रयत्नशब्दस्य सवर्णशब्दस्य च सम्बन्धिशब्दत्वाल्लभ्यते। सम्बन्धिशब्दो ह्रन्तेरणापि शब्दान्तरसन्निधिः नियमेव सम्बन्धिनमुपस्थापयति, यथा-`पितरि शुश्रूषितव्यम्` इति। नोच्यते स्वस्मिन्निति, सम्बन्धाच्चैतदवगम्यते, `यो यस्य पिता` इति। तथेहापि। यद्यपि यो यस्य तुल्यास्यप्रयत्नः, स तं प्रति सवर्णसञ्ज्ञो भवतीति,न चोच्यते, तथापि सम्बन्धात् तुल्यास्यप्रयत्नः समानजातीयमेव प्रति सवर्णसञ्ज्ञो भवतीति गम्यते। अथ वा समानो वर्णः `सवर्णः` इत्यन्वर्थसञ्ज्ञेयम्। तेनतुल्यजातीयमेव प्रति सवर्णसञ्ज्ञो भवति। एवं हि समानोऽस्य वर्णो भवति, यदि तमेव प्रति सवर्णसञ्ज्ञो भवति, न विजातीयं प्रति।`चत्वारः` इत्यादि। द्विविधाः प्रयत्नाः, आभ्यन्तराः, बाह्राश्च। तत्राभ्य-न्तराः चत्वारो वृत्तरौ दर्शिताः। बाह्रास्त्वेकादशष। के पुनस्ते? `विवारः, संवारः,आआसः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितश्च` इति। तत्र नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमात्रामन्नुरःप्रभृतीनामन्यतमस्मिन् स्ताने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरण-प्रयत्नाः परस्परं स्पृशन्ति, तदा सा `स्पृष्टता`। ईषद्यदा स्पृशन्ति, तदा सा ईष-स्पृष्टता; सामीप्येन यदा स्पृशन्ति, सा संवृतता; दूरेण यदा स्पृशन्ति, सा विवृतता-एते चत्वार आभ्यन्तराः प्रयत्नाः। आभ्यन्तरत्वं पुनरेषां स्थानकरणप्रयत्न-व्यापारेणोत्पत्तिकाल एव सम्भवात्। तत्र स्पृष्टकरणाः स्पर्शाः। कादयो मावसानाः स्पर्शाः, स्पष्टता गुणः। करणं कृतिरुच्चारणप्रकारः। स्पृष्टतानुगतं करणं येषां ते स्पृष्टकरणाः। एवमन्यत्रापि वेदितव्यम्। ईषत्स्पृष्टकरणा अन्तः स्थाः।अन्तः स्था यरलवाः। विवृतं करणमूष्मणाम्, स्वराणां च। स्वराः सर्व एवाचः। उष्ममाणः शषसहाः।अथ बाह्राः प्रयत्नाः किंलक्षणाः? स एव प्राणो नाम वायुपरूध्र्वमाक्रामन्मुध्न प्रतिहतो निवृतो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने गलबिलस्य संवृतत्वात् संवारो नाम वर्णधर्म उपजायते। विवृतत्वाद् विवारः। संवृते गलबिलेऽव्यक्तः शब्दो नादः, विवृते आआसः। उपरिवर्तिनौ तौ आआसनादावनुप्रदानमिति केचिदाचक्षते। वर्णनिष्पत्तेरनु-पश्चात् प्रदीयत इत्यनुप्रदानम्। अन्ये तु ब्राउवते `अनुप्रदानमनु-स्वानो घष्टानिह्र्यादवत्` यथा- घण्टानिह्र्यादोऽनुस्वनमनुभवति तथा इति। तत्र यदा स्थानाभिघातजे ध्ननौ नादोऽनुप्रदीयते, तदा नादध्वनिसङ्गाद् घोषो जायते, यदा आआसोऽनुप्रदीयते, तदा आआसध्वनिसङ्गादघोषः, महित वायौ महाप्राणः, अस्पवायावल्प-प्राणः। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः, कण्ठविवर-स्य च चाणुत्वम्, स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति, तमुदात्तमाचक्षते। यदा तु मन्दः प्रयत्नो भवति, तदा गात्रस्य रुआंसनम्, कण्ठबिलस्य महत्त्वम्, स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते। उदात्तानुदात्तस्वरसन्निकर्षात् स्वरित इत्येवं लक्षणा बाह्राः प्रयत्नाः। बाह्रत्वं पुनरेषां वर्णनिष्पत्तिकालादूध्र्वं, वायुवशेनोत्पत्तेः। तत्र वर्गाणां प्रथम द्वितीयाः शषरविसर्ज-नीयजिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः आआसानुप्रदाना अघोषाः।वग्र्ययमानां प्रथमेऽल्पप्राणाः। इतरे सर्वे महाप्राणाः। वर्गाणाञ्च तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः।वग्र्यमानां तृतीया अन्तःस्थाश्च अल्पप्राणाः। इतरे सर्वे महाप्राणाः। यथा तृतीया-स्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः।य एवैते द्विप्रकाराः प्रयत्ना बाह्रा आभ्यन्तराश्चाख्याताः, तेषामिह सवर्णसञ्ज्ञायां पूर्वोक्ता आभ्यन्तराश्चत्वारः स्पृष्टतादय आश्रीयन्ते,न बाह्रा विवारादयः, आस्यग्रहणेन तेषां व्यावर्तितत्वात्। स्पृष्टतादय एव ह्रास्ये भवन्ति, नविवारादयः। यद्येवम्, किमर्थं प्रयत्नग्रहणम्, एतावदस्तु तुल्यास्यमिति, आस्यग्रहणेनैव हि स्पृष्टतादयोऽपि प्रयत्नाः सवर्णसञ्ज्ञायां निमित्तभूतास्ताल्वादिस्थानवल्लभ्यन्त एव, तेषामप्यास्ये भवनात्? सत्यमेतत्, तथाप प्रत्येकं व्यापार-निरासार्थमुभयोरुपादानाम्। इतरथा हि यथैव स्थानं तुल्यं स्थानान्तरनिरपेक्षं सवर्णसञ्ज्ञायां व्याप्रियते, एवं प्रयत्नोऽपि स्थाननिरपेक्षः, स्थानं च प्रयत्ननिर-पेक्षं व्याप्रियेत; ततश्च भिन्नप्रयत्नानामपि तुल्यस्थानानाम्, भिन्नस्थानानामपि तुल्यप्रयतनानां सवर्णसञ्ज्ञा स्यात्। `अ अ अ` इत्यादिना येषां यावतां च यादृशां च मिथो नित्या सवर्णसञ्ज्ञा, तान् दर्शयति। अकाराणां हि सर्वेषाम् `अकुहविसर्जनीयाःकण्ठ्याः` इति तुल्यं कण्ठस्थानम्। इकाराणामपि `इचुयशास्तालव्याः` इति तालु। उकारा-णामपि `उपूपध्मानीया ओष्ठ्याः` इत्योष्ठः। ऋकाराणामपि `ऋटुरषा मूर्धन्याः` इतिमूर्धा। ऌकाराणामपि `लृतुलसा दन्त्याः` इत दन्तः। एकाराणामैकाराणां च `एऐ कण्ठतालव्यौ` इति कण्ठतालु। ओकाराणामौकाराणां च `ओ ओ कण्ठ्यौष्ठ्यौ` इतिकष्ठोष्ठम्। प्रयत्नस्तु सर्वेषामेवैषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। तस्मात् तुल्यस्थान्प्रयत्नत्वात् स्वरेऽकारादयो मिथः सवर्णसञ्ज्ञाः। एवंयावदौकारः। अन्तःस्था द्विप्रभेदाः, सानुनासिका निरनुनासिकाश्च रेफवर्जिताः। तेऽपि समानजातीयानन्तःस्थान् प्रति सवर्णसञ्ज्ञा भवन्ति। `रेफोष्मणां सवर्णा न सन्ति` इति। तेऽभ्योऽन्येऽकारादयो वर्णा विजातीया इत्येषोऽभिप्रायः। तुल्यजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नाः सवर्णाः सन्त्येव। तत्र रेफस्य तावद् ऋटुरषेभ्यो यवलेभ्यश्चान्ये वर्णा भिन्नस्थानत्वाच्च भिन्नप्रयत्नत्वाच्च सवर्णा न भवन्ति। तथाहि- `अकुहविसर्जनीयाः कण्ठ्याः, इचुयशास्तालव्याः, लृतुलसा दन्त्याः,अपूपध्मानीया ओष्ठ्याः, एऐ कण्ठतालव्यौ, ओ औ कण्ठओष्ठयौ` इति वचनादकारादीनां यथायोगं कण्ठादि स्थानम्। रेफस्य त्वृटुरषा मूर्धन्या इति मूर्धा। प्रयत्नोऽप्यनन्तरनिर्दिष्टेष्वकारादिषु ये स्वराः तेषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। ये तु वर्गान्तः पातिनः ककारादयः, तेषां स्पृष्टकरणाः स्पर्शा इति स्पृष्टता। रेफ-स्येषत्स्पृष्टकरणा अन्तःस्था इतीषत्स्पृष्टता। शकारसकारावपि स्थानप्रयत्नभेदाद्रेफस्य सवर्णौ न भवतः। तौ हि यथाक्रमं तालव्यदन्त्यौ। रेफस्तु मूर्धन्यः। प्रयत्नोऽपि तयोर्विवृतत्वम्। रेफस्य तु पूर्वोक्त एव। ऋटुषाः प्रयत्नभेदाच्चैव रेफस्य सवर्णा न भवन्ति; न तु स्थानभेदेन; तेषामपि मूर्धन्यत्वात्। प्रयत्नभेदस्तु विद्यतेऋकारषकारयोः पूर्ववद् विवृतत्वम्, रेफस्य तु स एव पूर्वोक्तः। टवर्गस्य स्पृष्टता।यवलास्तु पुनः स्थानभेदादेव सवर्णा न भवन्ति, न तु प्रयत्नभेदात्; तेषामपीषत्स्पृ-ष्टगुणत्वात्। स्थानभेदस्तु विद्यते, यवलानां यथायोगं तालव्यदन्त्योष्ठत्वात्। एवं विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराः। कुँ खुँ गुँ घुँ इत्येते च यमाश्चातुल्यस्थानप्रयत्नत्वादेव रेफस्य सवर्णा न भवन्ति। विसर्जनीयो हि कण्ठः,जिह्वामूलीयो हि जिह्व्यः; उपध्मानीय ओष्ठ्यः, अनुस्वारयमा नासिक्याः, रेफस्तुमूर्धन्यः। प्रयत्नस्तु यस्तस्य पूर्वोक्तः, स विसर्जनीयादीनां नास्त्येव तदेवं रेफस्य रेफादन्यो नास्ति कश्चित् सवर्तो वर्णः। अनया दिशोष्मणामपि शकारादीनांसावण्र्याभावे वेदितव्यः।`वर्ग्यः` इत्यादि। वर्गे भवो वर्ग्यः। `दिगादित्वाद् यत्` (4.3.54) , **यस्येति च** (6.4.148) इत्याकारलोपः। वग्र्यो यो वर्णः, सोऽन्येन वर्ग्येणस्ववर्गान्तःपातिना तुल्यास्यप्रयत्नेन सह सवर्णो भवति,यथा-ककारः खकारेण। एवमन्यत्रापि वेदितव्यम्। `भिन्नस्थानानाम्` इत्यादि। एते हि ककारादयः सर्वे स्पृष्टगुणत्वात् तुल्यप्रयत्ना यथाक्रमं कण्ठतालुमूर्धदन्तोष्ठस्थानत्वाद्भिन्नस्थानाः। `तर्प्ता, तर्प्तुम्` इति। `तृप तृन्फ तृप्तौ` (धातुपाठः-1307,1308) इत्यस्य तृचि तुमुनि च रूपम्। `भिन्नप्रयत्नानाम्ित्यादि। इकारादयोहि तालव्यत्वात् सर्वे तुल्य-स्थाना विवृतत्वस्पृष्टत्वेषत्स्पृष्टत्वप्रयत्नात् यथायोगं भिन्नप्रयत्नाः। इकार-शकारयोर्यद्यपि प्रयतनोऽप्यभिन्नः,तथापि, तयोः प्रतिषेधं वक्ष्यतीति न भवति सवर्ण-त्वम्। `अरुश्च्योतति`इति `श्च्युतिर् क्षरणे` (धातुपाठः-41) इत्यस्य लटि रूपम्। तत्र परत्रावस्थितऽरुस्शब्दस्य सकारस्य रुत्वम्। तस्य विसर्जनीयः, तस्यापि `वा शरि` (8.3.36) इति सकारः, तस्यापि श्चुत्वं शकारः। `होतृकारः` इति। कथं पुनरत्र ऋकारआदेशो भवति, न हि ऋकारऌकारयोः समुदायस्य स्थानिनः सोऽन्तरतम इत्याह- `उभयोः`इत्यादि। ऋकारो मूर्धन्यः, ऌकारस्तु दन्त्यः। तत्र तयोर्यद्येको मूर्धन्यो दन्त्यश्च दीर्घो वर्णोऽन्तरतमः सम्भवेत्, तदा सोऽन्तरतम आदेशो भवेत्। स च न सम्भवतीत्यवयवस्य योऽन्तरतमः, तेन भाव्यम्। तत्रापि यदि ऌकारो दीर्घः स्यात्। सोऽपि पर्यायेण स्यात्, स च नास्ति; तस्मात् पारिशेष्यात् समुदायस्यैकादेशस्य योऽन्तरतमः स एव ऋकारो भवति। Praudhamanorama --------------- आस्ये भवमास्यं 'शरीरावयवाद्यत्' इत्यभिप्रेत्याह— **ताल्वादीति। आभ्यन्तरेति।** एतच्च प्रशब्दबलाल्लभ्यते। तुल्यास्यं किम्? तर्प्ता। अत्र पकारस्य तकारे परे **झरो झरि** (8.4.65) इति लोपो मा भूत्। प्रयत्नग्रहणं किम्? वाक् श्चोतति। शस्य लोपो न। **ञमङणनानामिति।** 'नासिका च' इति चकारेण स्वस्ववर्गानुकूलं ताल्वादि समुच्चीयते। 'अनुस्वारोत्तमा अनुनासिकाः' इति तैत्तिरीयाणां प्रातिशाख्यम्। 'यमानुस्वारनासिक्यानां नासिका, अनुनासिकाश्चोत्तमाः' इति कात्यायनप्रातिशाख्यम्।'वर्गोत्तमा ञमङणना अनुनासिका भवन्ति, चशब्दात्स्वस्थानाद्यपरित्यागेन नासिकास्थानं द्वितीयमेषामित्यर्थः' इति तद्भाष्यं च। 'एदैतोः' इत्यादौ तपरत्वमसन्देहार्थं, न तु तत्कालग्रहणार्थम्। तेन प्लुतस्यापि संग्रहः। Prakriyasarvasvam ----------------- तुल्यस्थानप्रयत्नमक्षरं सवर्णंस्यम् । 'ऋऌवर्णयो' र्मिथः सावण्यं वाच्यम्' । (वा० १. १. ९) Sarala ------ **अणुदित् सवर्णस्य चाप्रत्ययः** (१.१.६९) इति (अष्टादशानामकारेकारादीनाम्) "अ-इ-उ" इत्यादिसञ्ज्ञां वक्ष्यन् तदुपयोगिनीं सवर्णसञ्ज्ञां तावदाह - **तुल्येति** । तोलनं - तुला, तुलया समितं - तुल्यम् । तुल्यञ्च तुल्यञ्च तुल्यौ । अस्यन्ति - उच्चारयन्ति - वर्णान् अनेनेति - आस्यम् । आस्ये भवम् - आस्यम् । प्रकृष्टो यत्नः - प्रयत्नः । आस्यञ्च प्रयत्नश्च - आस्यप्रयत्नौ, तुलावास्यप्रयत्नौ तस्य तत् - **तुल्यास्यप्रयत्नम्** - प्रथमान्तम् । **सवर्णं** - प्रथमान्तम् । अत्र आस्यशब्दो न मुखमात्रपरः, सर्वेषु वर्णेषु आस्यस्य जनकस्य तुल्यतया तदुपादानस्य वैयर्थ्यापत्तेः, किन्तु आस्यपदम् - आस्यभवस्थानपरम्, प्रयत्नस्य पृथगुपादानात् । वर्णोत्पत्त्यव्यवहितप्राग्भावित्वरूपप्रकर्षवत्त्वात्प्रकृष्टो यत्न इह आभ्यन्तरः । "कण्ठादी"ति वक्तुमुचितं, शिक्षायां कण्ठादितयैव स्थानानां निर्द्देशात् । **मिथः** = परस्परम् । **ऋलृवर्णयोरिति** । आ च आ च रलौ, रलौ च तौ वर्णौ च ऋलृवर्णौ, तयोरिति विग्रहः । यद्वा आ च लृवर्णश्च ऋलृवर्णौ, तयोरिति विग्रहः । परिनिष्ठितविभक्त्या समास इति पक्षे तु उश्च उल् च ऋलोः, तयोश्च तयोर्वर्णयोरिति विग्रहो बोध्यः । "ऋत्यक" इति प्रकृतिभावः । अत्र च - भोः सूत्रकार ! ननु त्वया न्यूनमुक्तं, त्वया इदमपि वाच्यं, किन्तद्वाच्यं ? - भिन्नस्थानिकयोः ऋलृवर्णयोरपि सावर्ण्यं वाच्यमिति च वार्त्तिकाऽर्थः । कस्य किं स्थानमित्याशङ्क्याह - **अकुहेति** । अश्च कुश्च हश्च विसर्जनीयश्च ते - अकुहविसर्जनीयाः, तेषामिति विग्रहः । "अ" पदेन अष्टादशभेदा ग्राह्याः । विसर्जनीयपदेन अकाराश्रयो विसर्ग एव ग्राह्यः, साहचर्यात् । तेन "अयोगवाहा विज्ञेया आश्रयस्थानभागिनः" इति शिक्षया न विरोधः । यद्यपि सर्ववर्णोच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽपि आवश्यकः, आकाराद्युच्चारणे तु न ताल्वादिव्यापारावश्यकतेति तेषां कण्ठस्थानत्वोक्तिरिति भावः । कचयोर्यावत्स्थानसाम्याऽभावान्न मिथः सावर्ण्यमित्यपि बोध्यम् । **इच्विति** । इश्च चुश्च यश्च शश्च ते - इचुयशाः, तेषाम् - इचुयशानामिति विग्रहः । अत्र - "इ" पदेन इकारस्य अष्टादश भेदा ग्राह्याः । **ऋटुरषेति** । आ च टुश्च रश्च षश्च ते - ऋटुरषाः, तेषाम् - ऋटुरषाणाम् । **लृतुलसेति** । आ च तुश्च लश्च सश्च लृतुलसाः, तेषाम् - लृतुलसानाम् । दन्तपदं तत्संयुक्तदन्तमूलप्रदेशपरम्, अतो भग्नदन्तस्याप्युच्चारणं भवति । **उपूपेति** । उश्च पुश्च उपध्मानीयश्च - उपूपध्मानीयाः, तेषाम् । उश्च पश्च - उपौ, उपौ ध्मायते येनासौ - उपध्मानः = ओष्ठः, उपध्माने भव उपध्मानीय इति विग्रहेण उपध्मानीयस्य ओष्ठस्थानत्वस्य लाभ इत्याशयेन तस्याऽत्र ओष्ठस्थानतोक्ता । **ञमेति** । ञश्च मश्च ङश्च णश्च नश्च - ञमङणनाः, तेषामिति विग्रहः । चेन स्वस्ववर्गानुकूलं ताल्वादि समुच्चीयते । **एदौतोरिति** । एच्च ऐच्च - एदैतौ, तयोः - एदैतोः । अत्र तपरस्य मुखसुखार्थतया लोकानुभवसिद्धार्थानुवादकेतपरशास्त्राऽप्रवृत्त्या च प्लुतानामपि तत्स्थानत्वं बोध्यम् । कण्ठश्च तालु च - अनयोः समाहारः - कण्ठतालु । एवं कण्ठोष्ठमित्यपि । दन्ताश्च ओष्ठौ च एषां समाहारः - दन्तोष्ठम् । एवञ्च वकारस्य दन्तस्थानता ओष्ठस्थानता च लभ्यते । दन्तोष्ठादि तु न समुदितं स्थानम्, "अष्टौ स्थानानी"ति शिक्षाविरोधात् । स्थानान्युक्त्वा प्रयत्नं तावन्निर्द्दिशति - **यत्न इति** । आद्यः = आभ्यन्तरः । तत्र = पञ्चसु यत्नेषु मध्ये । "प्रयतन"मिति नपुंसके भावे ल्युडन्तम् । प्रयत्न इत्यर्थः । ह्रस्वस्याऽवर्णस्य = देवदत्तादिघटकस्याऽवर्णस्य । प्रयोगे = परिनिष्ठितानां "रामः" इत्यादीनामुच्चारणे । प्रक्रियादशायां = प्रयोगसाधनावसरे । शास्त्रीयकार्यप्रवृत्तौ । **विवृतमेवेति** । तस्य विवृतत्वं प्रतिज्ञेयमित्यर्थः । तेन "दण्ड-आढकम्" इत्यत्र ह्रस्वस्याऽकारस्य सवर्णदीर्घे कर्त्तव्ये विवृतं प्रयतनमाकारस्यापि विवृतं प्रयतनमिति ह्रस्वदीर्घयोरकाराऽऽकारयोः परस्परं सावर्ण्यादकः सवर्णे इति दीर्घः सिद्ध्यति । अन्यथा तत्र संवृतस्य ह्रस्वाऽकारस्य विवृतेन दीर्घेण सावर्ण्याऽभावाद्दीर्घो न स्यात् । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतत्वञ्च **अ अ** (८.४.६८) इति सूत्रबलादेव लभ्यते । प्रक्रियादशायान्तु **पूर्वत्रासिद्धम्** (८.२.१) इति संवृतविधेरसिद्धत्वाद्विवृतत्वमेवावशिष्यते इत्यवधेयम् । **बाह्यप्रयत्न इति** । बाह्यप्रयत्ना यद्यपि सवर्णसञ्ज्ञायामनुपयुक्ताः, एवञ्च तेषामिहोपादानं व्यर्थं, तथापि वाग्घरिरित्यादावान्तरतम्यपरीक्षायान्ते उपयोक्ष्यन्ते इति प्रसङ्गादत्र ते दर्शिताः । उदात्तादिशब्दाश्च धर्मपराः । लोके यत्नप्रयत्नशब्दयोः पर्यायशब्दतया तदनुसारेण बाह्येषु यत्नेष्वपि प्रकृते प्रयत्नशब्द उपात्त इत्यवधेयम् । **घोषाश्चेति** । अचामपि संवारनादघोषाल्पप्राणत्वमिति प्रकृते चेनाऽचामपि ग्रहणम् । **यणश्चेति** । चेन अचामपि ग्रहणम् । तेन संवारनादघोषाल्पप्राणत्वमचां लब्धम् । **सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः** (७.१.३९) इतिसूत्रे **इकारस्यान्तर्यतो दकार** इति भाष्यमत्र मानम्, अन्यथा तत्र तदौ पर्यायेण स्याताम्, अल्पप्राणत्वानङ्गीकारे दधौपर्यायेण स्यातामिति ध्येयम् । उदात्तत्वादेरज्धर्मतायाः प्रसिद्धत्वात्तद्व्यवस्था नोक्ता । नाऽतो तदनुक्त्या न्यूनतेत्यपि बोध्यम् । स्पर्शाः = स्पर्शपदव्यवहार्याः । **अन्तस्था इति** । स्पर्शोष्मणोरन्तः = मध्ये तिष्ठतीति - अन्तस्था, ते अन्तस्थाः । अयमन्तस्थाशब्द आदन्तो, विश्वपाशब्दवत् । **ऊष्माण इति** । ऊष्मा = वायुः, तत्प्रधाना इत्यर्थः । **स्वरा इति** । स्वयमेव (उदात्तादिभिः) राजन्ते इति व्युत्पत्त्या अचां स्वरत्वस्य लाभः । स्वरधर्मत्वादुदात्तादयोऽपि "स्वरा" इत्युच्यन्ते । "अं-अः" इत्युपलक्षणम्, इकारादेरपि, तदाह - अचः पराविति ॥ Sudha ----- **तुल्यास्येति । ** आस्ये — मुखे भवम् आस्यं ताल्वादिस्थानम् **शरीरावयवाद्यत्** (4.3.55) इति भवार्थे यत्प्रत्ययः । प्रकृष्टो यत्नः प्रयत्नः । आस्यं च प्रयत्नश्च आस्यप्रयत्नौ । तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत् तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावस्तदाह - **ताल्वादीति । ** ** मिथ इति । ** परस्परमित्यर्थः । कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनानि अर्थतः सङ्गृह्णाति - **अकुहेत्यादिना ।** 'अ' इत्यष्टादशभेदा गृह्यन्ते । 'कु' इति कादिपञ्चकात्मकः कवर्गः । अश्च कुश्च हश्च विसर्जनीयश्चेतो विग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः । **इचुयशेति ।**'इ' इत्यष्टादश भेदाः । 'चु' इति चवर्गः । इश्च चुश्च यश्च शश्चेति विग्रहः । **ऋटुरषेति ।**'ऋ' इत्यष्टादश भेदाः । 'टु' इति टवर्गः । आ च टुश्च रश्च षश्चेति विग्रहः । 'ऋ' शब्दस्य आ इति प्रथमैकवचनान्तम्, 'धाता' इतिवत् । **ऌतुलसेति । ** 'ऌ' इत्यस्य द्वादश भेदाः । 'तु' इति तवर्गः । आ च तुश्च लश्च सश्चेतिविग्रहः । 'ऌ' शब्दस्यापि 'आ' इत्येव प्रथमैकवचनान्तत्वम् — आ, अलौ, अलः इति । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः । अन्यथा भग्नदन्तस्य तदुच्चारणानुपपत्तेः । ** उपूपेति । ** 'उ' इत्यष्टादशभेदाः । 'पु' इति पवर्गः । उश्च पुश्च उपध्मानीयश्चेति विग्रहः । उपध्मानीयशब्दस्य व्याख्यानमनुपदमेव मूले स्पष्टं भविष्यति । **ञमङणनेति । ** ञश्च मश्च ङश्च णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः । **एदैतोरिति ।** एच्च ऐच्च ऐदैतौ । तपरकरणमसन्देहार्थम् । **ओदौतोरिति । ** ओच्च औच्च औदौतो । तपरकरणं पूर्ववदसन्देहार्थमेव । **जिह्वामूलीयस्येति ।** ≍क ≍ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीय इति अग्रे मूले एव उक्तम् । **अनुस्वारस्येति । ** स्थानमिति शेषः । अनुस्वारस्य नासिकास्थानमस्तीति भावः । **यत्नो द्विधेति । ** यत्नानामाभ्यन्तरत्वं बाह्यत्वं च वर्णोत्पत्तेः प्रागूर्द्ध्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम् । **यत्न इति ।** यत्नशब्दोऽत्र प्रयत्नपरः । **आद्य इति **आभ्यन्तप्रयत्नः इत्यर्थः । कथं पञ्चधा इत्यत आह — **स्पृष्टेत्यादिना । ** ** तत्रेति । ** स्पृष्ट,ईषत्स्पृष्ट,ईषद्विवृत,विवृत,संवृत — एषु मध्ये इत्यर्थः । **प्रयतनमिति । ** प्रयत्न इत्यर्थः । **स्पर्शानामिति । ** स्पर्शवर्णानामित्यर्थः । के ते वर्णाः इति मूले स्फुटीभविष्यन्ति । तथापि निर्दिश्यन्ते अत्रापि — क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म — कवर्णादारभ्य मवर्णपर्यन्तम् । **अन्तःस्थानामिति । ** यरलवानामित्यर्थः । **ऊष्मणामिति ।** श ष स ह इत्येतेषामित्यर्थः । **स्वराणामिति । ** अ इ उ ऋ ऌ ए ओ ऐ औ इत्येतेषामित्यर्थः । **प्रयोगे इति ।** शास्त्रीयप्रक्रियाभिः परिनिष्ठितायां रामः कृष्णः इत्यादिशब्दानां प्रयोगे क्रियमाणे एव ह्रस्वस्यावर्णस्य संवृतत्वमित्यर्थः । **प्रक्रियेति । ** शास्त्रीयकार्यप्रवृत्तिसमये दण्ड-आढक इत्यादौ सवर्णदीर्घादिकर्तव्ये तु विवृतत्वमेव । तेन सन्धिकार्यं निर्बाधमेव । एतत्सर्वं **पूर्वत्रासिद्धम्** (8.2.1) इत्यनेन ज्ञापितमिति सिद्धान्तकौमुद्यां स्पष्टम् । ** बाह्येति । ** वर्णोत्पत्यनन्तरजातो यत्नो बाह्यप्रयत्न इत्युच्यते । **खर इति ।** ख फ छ ठ थ च ट त क प श ष स — इति वर्णाः । **विवारा इति ** । विवारादिप्रयत्नवन्तः इत्यर्थः । **हश इति । ** ह य व र ल ञ म ङ ण न झ भ घ ढ ध ज ब ग ड च — इति वर्णा इत्यर्थः । **संवारा इति । ** संवारादिप्रयत्नवन्तः इत्यर्थः । **अल्पप्राणा इति । ** कगङ, चजञ, टडण, तदन पबम, यरलव — इत्येतेषां वर्णानाम् अल्पप्राणः इति भावः । खघ, छझ, ठढ, थध, फभ, शषसह — इत्येतेषां महाप्राणः इत्यपि ज्ञेयम् । ** कादय इति । ** क-ख-इत्यादि-म-पर्यन्तमिति पूर्वमुक्ताः वर्णाः इत्यर्थः । क आदिर्येषां ते कादयः, म अवसाने येषान्ते मावसाना इति । **यण इति । ** यण्-प्रत्याहारान्तर्गतवर्णाः, 'यरलवाः' इत्यर्थः । **शल इति ।** शल्-प्रत्याहारान्तर्गतवर्णाः 'श,ष,स,ह' — इत्येते । **स्वरा इति ।** स्वेन राजत इति स्वराः, 'अ इ उ ऋ ऌ ए ओ ऐ औ' — इति वर्णाः इत्यर्थः ॥ Vartika ------- ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम् ।