11003: इको गुणवृद्धी ==================== **Padacheda:** इकः | S | 6 | 1 | गुण-वृद्धी | S | 1 | 2 | Sutrartha --------- **यत्र 'गुण'शब्देन गुणादेशः निर्दिश्यते उत 'वृद्धि'शब्देन वृद्ध्यादेशः निर्दिश्यते, तत्र सः आदेशः इक्-वर्णस्य स्थाने भवति ।** यत्र "गुणः" इति शब्देन गुणादेशः निर्दिश्यते, अथ वा यत्र "वृद्धिः" इति शब्देन वृद्ध्यादेशः निर्दिश्यते, परन्तु कस्य गुणादेशः वृद्ध्यादेशः वा भवति इति स्पष्टीकृतम् नास्ति, तत्र **इकः** इति षष्ठ्यन्तम् पदम् संस्थाप्य **इक्-वर्णस्य स्थाने (इत्युक्ते, इवर्ण-उवर्ण-ऋवर्ण-ऌवर्णानाम् स्थाने) गुणादेशः / वृद्ध्यादेशः भवति** इति अर्थः स्वीकरणीयः —‌ इति प्रकृतसूत्रस्य आशयः । उदाहरणे एतादृशे — 1. **मिदेर्गुणः** (7.3.82) अनेन सूत्रेण मिद्-धातोः शित्-प्रत्यये परे गुणादेशः उच्यते । अत्र "गुणः" इति शब्देन गुणादेशस्य विधानम् कृतम् अस्ति, अतः अत्र प्रकृतपरिभाषायाः आधारेण "इकः" इति पदं संस्थाप्य **मिदेः **इकः** गुणः भवति** इति अर्थः सिद्ध्यति । प्रक्रिया इयम् — .. code-block:: text ञिमिदाँ (स्नेहने, दिवादिः, (4.158)) → मिद् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → मिद् + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झि...** (3.4.78) इति तिप्-प्रत्ययः] → मिद् + श्यन् + ति [**दिवादिभ्यः श्यन्** (3.1.69) इति श्यन्] → मेद् + य + ति [शित्-प्रत्यये परे **मिदेर्गुणः** (7.3.82) इति मिद्-धातोः अङ्गस्य गुणः । अत्र **इको गुणवृद्धी** (1.1.3) इत्यनेन 'इकः' इति पदम् उपस्थाप्यते, अतः अत्र 'इक् वर्णस्य स्थाने' गुणः भवति । इत्युक्ते इकारस्य स्थाने उच्चारणस्थानसाधर्म्यात् एकारः आदेशरूपेण विधीयते ।] → मेद्यति । 2. **मृजेर्वृद्धिः** (7.2.114) अनेन सूत्रेण मृज्-धातोः वृद्ध्यादेशः विधीयते । अत्र अपि "वृद्धिः" इति शब्देन वृद्ध्यादेशस्य विधानम् कृतम् अस्ति, अतः अत्र प्रकृतपरिभाषायाः आधारेण "इकः" इति पदं संस्थाप्य **मृजेः **इकः** वृद्धिः भवति** इति अर्थः सिद्ध्यति । प्रक्रिया इयम् — .. code-block:: text मृजूँ (शुद्धौ, अदादिः, (2.61)) → मृज् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः] →‌ मार्ज् + अनीयर् [**मृजेर्वृद्धिः** (7.2.114) इति मृज्-धातोः अङ्गस्य वृद्धिः भवति । अत्र **इको गुणवृद्धी** (1.1.3) इत्यनेन 'इकः' इति पदम् उपस्थाप्यते, अतः अत्र 'इक् वर्णस्य स्थाने' वृद्धिः भवति । इत्युक्ते ऋकारस्य स्थाने उच्चारणस्थानसाधर्म्यात् रपरः आकारः आदेशरूपेण विधीयते ।] → मार्जनीय **दलकृत्यम्** **1. 'इकः' इति किमर्थम् ? ** यत्र अङ्गे इक्-वर्णः न विद्यते, तत्र प्रक्रियायाम् गुणः / वृद्धिः सम्भवति चेद् अपि इक्-वर्णस्य अभावात् तादृशं कार्यं नैव सम्भवति । यथा, "या" इति धातोः अनीयर्-प्रत्यये कृते **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य अन्तिम-स्वरस्य गुणादेशः प्राप्नोति । परन्तु अत्र अङ्गस्य अन्ते इक्-वर्णः न विद्यते । अतः अत्र गुणादेशः अपि न हि प्रसज्यते । प्रक्रिया इयम् — .. code-block:: text या (प्रापणे, अदादिः, (2.44)) → या + अनीयर् [**तव्यत्तव्यानीयरः** इति अनीयर्-प्रत्ययः] → यानीय [अत्र आर्धधातुकप्रत्यये परे **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य अन्तिमवर्णस्य (आकारस्य) गुणः प्राप्नोति । परन्तु अत्र प्रकृतपरिभाषया 'इकः' इति पदम् अपि उपतिष्ठते । अस्यां स्थितौ अतः अत्र गुणादेशः नैव सम्भवति, यतः आकारः इक-प्रत्याहारे न अन्तर्भवति । अतः अत्र **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घं कृत्वा एव रूपसिद्धिः भवति ।] **2. 'गुणशब्देन' / 'वृद्धिशब्देन' इति किमर्थम् ? ** यत्र केवलम् गुणसंज्ञकः वृद्धिसंज्ञकः वा वर्णः आदेशरूपेण विधीयते, परन्तु 'गुणः भवति' अथवा 'वृद्धिः भवति' इति निर्दिष्टं नास्ति, तत्र इयम् परिभाषा न हि प्रयुज्यते, अतः तत्र तादृशः आदेशः इक्-भिन्नवर्णस्य अपि भवति । यथा, **दिव औत्** (7.1.84) इति सूत्रेण "दिव्" शब्दस्य सुँ-प्रत्यये परे औ-आदेशः विधीयते । अत्र यद्यपि "औ" इति वृद्धिसंज्ञकः वर्णः अस्ति, तथापि अस्य विधानम् 'वृद्धिः भवति' इति स्वरूपेण नैव क्रियते, अतः अत्र प्रकृतपरिभाषा न हि उपतिष्ठते । अतएव **अलोऽन्त्यस्य** (1.1.52) इत्यनेन दिव्-शब्दस्य अन्तिम-वकारस्य औकारादेशः भवति । प्रक्रिया इयम् — .. code-block:: text दिव् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → दिऔ + स् [**दिव औत्** (7.1.84) इति औकारादेशः । **अलोऽन्त्यस्य** (1.1.52) इति अयम् अन्तिमवर्णस्य स्थाने भवति, अतः अत्र वकारस्य स्थाने औकारः विधीयते ।] → द्यौस् [**इको यणचि** (6.1.77) इति यणादेशः] → द्यौः [**ससजुषो रुँः** (8.2.66) इति रुँत्वम् ] **अनियमे नियमकारिणी परिभाषा** इदं सूत्रम् **परिभाषासूत्रम्** अस्ति । **अनियमे नियमकारिणी परिभाषा** इति व्याख्यया परिभाषासूत्रस्य तदा एव प्रयोगः भवति यदा कुत्रचित् अनियमः / सन्देहः जायते । इत्युक्ते, 'कस्य वर्णस्य गुणः वृद्धिः वा स्यात्' — इत्यस्मिन् विषये सन्देहः यदा उपपद्यते, तदा एव प्रकृतसूत्रस्य प्रयोगः करणीयः । यत्र एतादृशः सन्देहः न भवति, इत्युक्ते **यत्र स्थानिनः स्पष्टरूपेण निर्देशः कृतः अस्ति, तत्र तु प्रकृतसूत्रस्य प्रयोगः न हि भवति** । यथा — 1) **अचो ञ्णिति** (7.2.115) इति सूत्रेण "अच्"-वर्णस्य स्थाने वृद्धिः विधीयते । अत्र सूत्रे 'अच्' इति स्थानिर्देशः स्पष्टरूपेण कृतः अस्ति, अतः अत्र कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् नैव आवश्यकम् वर्तते, अतः अत्र "इकः" इति पदम् अपि नैव स्वीक्रियते । अतएव 'गो' शब्दस्य ओकारस्य अपि **अचो ञ्णिति** (7.2.115) इति सूत्रेण वृद्धिः सम्भवति — .. code-block:: text गो + सुँ [गो-शब्दात् प्रथमैकवचनस्य सुँ-प्रत्ययः । **गोतो णित्** (7.1.90) इति सूत्रेण अयं सुँ-प्रत्ययः णिद्वत् कार्यं करोति ।] → गौ + स् [णित्-प्रत्यये परे **अचो ञ्णिति** (87.2.115) इत्यनेन अजन्तस्य अङ्गस्य अन्तिम-अच्-वर्णस्य वृद्धिः विधीयते । अत्र सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यं नैव स्वीक्रियते, अपि तु ओकारस्य वृद्धिं कृत्वा तस्य स्थाने औकारः विधीयते] → गौः [**ससजुषो रुः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] 2) **अत उपधायाः** (7.2.116) इति सूत्रेण अङ्गस्य उपधा-"अकारस्य" स्थाने वृद्धिः विधीयते । अत्र सूत्रे 'अतः' इति स्थानिनिर्देशः स्पष्टरूपेण कृतः अस्ति, अतः अत्र कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् नैव आवश्यकम् वर्तते, अतः अत्र "इकः" इति पदम् अपि नैव स्वीक्रियते । अतएव 'पठ्' शब्दस्य अकारस्य अपि **अत उपधायाः** (7.2.116) इति सूत्रेण वृद्धिः सम्भवति — .. code-block:: text पठ् + ण्यत् [**ऋहलोर्ण्यत्** (3.1.124) इति ण्यत्-प्रत्ययः] → पाठ् + य [**अत उपधायाः** (7.2.116) इति उपधावृद्धिः । अकारस्य वृद्धिः आकारः] → पाठ्य 3. **आद्गुणः** (6.1.87) इत्यनेन सूत्रेण अवर्णस्य अच्-वर्णे परे गुण-एकादेशः विधीयते । अत्र सूत्रे 'आत्' तथा च (अनुवृत्तिरूपेण) 'अचि' इति स्थानिनिर्देशः कृतः अस्ति, अतः कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् अत्र नैव आवश्यकम् वर्तते । अतएव "गण + ईशः" इत्यत्र अकार-ईकारयोः गुणैकादेशे कृते उभयोः स्थाने एकारः विधीयते, येन "गणेश" इति शब्दः सिद्ध्यति । 4. **वृद्धिरेचि** (6.1.88) इत्यनेन सूत्रेण अवर्णस्य एच्-वर्णे परे वृद्धि-एकादेशः विधीयते । अत्र सूत्रे 'एचि' तथा च (अनुवृत्तिरूपेण) 'आत्' इति स्थानिनिर्देशः कृतः अस्ति, अतः कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् अत्र नैव आवश्यकम् वर्तते । अतएव "वन + ओषधिः" इत्यत्र अकार-एकारयोः वृद्ध्येकादेशे कृते उभयोः स्थाने औकारः विधीयते, येन "वनौषधिः" इति शब्दः सिद्ध्यति । **निषेधः** प्रकृतसूत्रात् अनन्तरम् विद्यमानैः त्रिभिः सूत्रैः प्रकृतसूत्रस्य निषेधः उच्यते — 1. **न धातुलोप आर्धधातुके** (1.1.4) — आर्धधातुकप्रत्ययस्य कारणेन धातोः कश्चन अंशः लुप्यते चेत् अवशिष्टस्य अंशस्य **इक्-वर्णस्य गुणः/वृद्धिः न भवति** । 2. **क्ङिति च** (1.1.5) —‌ कित्/गित्/ङित्-प्रत्ययः निमित्तरूपेण प्रयुज्यते चेत् धातोः अङ्गस्य **इक्-वर्णस्य प्राप्तः गुणः/वृद्धिः न भवति** । 3. **दीधीवेवीटाम्** (1.1.6) — दीधीङ् तथा वेवीङ् एतयोः धात्वोः विद्यमानस्य **इक्-वर्णस्य गुणः/वृद्धिः न भवति** । एतेषाम् उदाहरणानि तत्तत्स्थले एव द्रष्टव्यानि । Sutrartha (English) ------------------- If the words गुण or वृद्धि are used to denote the operation of गुणादेश or वृद्धि-आदेश without specifying where such an आदेश happens, then this आदेश should be done in place of the 'इक्' letter. Vasu English Summary -------------------- In the absence of any special role whenever गुण or वृद्धि is enjoined about any expression by using the terms गुण or वृद्धि, it is to be understood to come in the room of the इक् (इ, उ, ऋ, लृ) of that expression. Vasu English Translation ------------------------ In the absence of any special role whenever गुण or वृद्धि is enjoined about any expression by using the terms गुण or वृद्धि, it is to be understood to come in the room of the इक् (इ, उ, ऋ, लृ) of that expression. This is a *paribhasha* *sutra*, and is useful in determining the original letters, in the place of which the substitute *guna* and *vriddhi* letters will come. The present rule will apply where there is the specification of no other particular rule. Thus *sutra* (7.3.84) declares:- "when a *sarvadhatuka* or an *ardhadhatuka* affix follows there is *guna* of the base." Here the *sthani* or the original expression which is to be *gunated*, is not specified, and to complete the sense, the word "*ikah*" must be read into the *sutra*. The rule then being, "when a S. or an A. affix follows there is *guna* of the *ik* vowels of the base." The *guna* of इ or ई is ए; of उ or ऊ, is ओ, of ऋ or ॠ is अर्, of ऌ is अल्; and their *Vrddhi* is ऐ, औ, आर् and आल् respectively. Thus नी + अति = ने + अति = नयति "he leads." Therefore, wherever in any rule in this Grammar, *guna* or *vriddhi* is ordained by employing the terms *guņa* or *vriddhi*, there the word "*ikah*" in the genitive case, meaning "in the place of *ik*", is to be supplied to complete the sense. The word '*ik*' is thus understood in the following rules, and is there qualified by the term अङ्ग or 'base':- मिदेर्गुणः (7.3.82) मृजेर्वृद्धिः (7.2.114) पुगन्तलघूपध &c., (7.3.86); ऋच्छत्यॄताम् (7.4.11) ऋदृशोऽङि गुणः (7.4.16) स्थूलदूरयुव &c., (6.4.156). In the following *sutras*, the term '*ik*' is understood and qualifies the word *ånga* or base, जुसि च (7.3.83), सार्वधातुकार्धधातुकयोः (7.3.84). These *sutras* will be explained in their proper places. The word '*ik*' has been used in the *sutra* to show that the long आ, एच् or the diphthongs and हल् or the consonants, are not to take *guna* or *vriddhi* by this rule, as in the following examples यानम् "a carriage", ग्लायति "he feels aversion", उम्भिता "confined". Here ग्लायति is formed by adding the affix तिप्, third person singular termination, with the class a affix शप्, to the root ग्लै; as ग्लै+शप्+तिप्=ग्लै+अ+ति. At this stage, rule (7.3.84), would require the *guna* substitution of the vowel of the base before the *sarvadhatuka* termination अ; the *guna* substitute of ऐ being ए, there would be ग्ले+अति=ग्लयति. But this is wrong, the letter ऐ, being not included in the *pratyâhåra* *ik*, is not affected by rule (7.3.84), and there is no *guna* substitution in this case. Similarly there is no change in the long आ of यानम्. Thus या+ल्युट् (3.3.115) = यानम् (7.1.1). Here had there been *guņa* by Rule (7.3.84), the आ of या, would have been changed into अ, and the form would have been यनम् which is wrong. But it is not so, as आ is not an इक् vowel. So also उम्भ्+इता = उम्भिता. Here, there is no *guna* substitution in the place of the consonant भ्. The repetition of the words *guna* and *vriddhi* in this *sútra*, (though by अनुवृत्ति or the supplying of a word from the previous *sūtra*, these words followed from the two preceding *sutras*) is for the purpose of indicating that, this is a restrictive rule applicable only there, where *guņa* or *vriddhi* has been ordained by the employment of the words *guna* or *vriddhi*. Therefore, it is not so in the following cases :- द्यौः "sky", पन्थाः "way" सः "he," इमम् "this". द्यौः is the nominative singular of the base दिव्. It is formed by rule (7.1.84), which declares that "in the nominative singular the letter औ takes the place of दिव्". Here the letter औ is no doubt a *vriddhi* letter, but as this substitution is not enjoined by the enunciation of the term *vriddhi*, औ does not take the place of the vowel इ of दिव्, but it replaces the final व्. Thus दि+औ+स्=द्यौः. Similarly rule (7.1.85), declares that of the word पथिन्, आ is the substitute. The आ is a *vriddhi* letter no doubt, but not being enunciated by the term *vriddhi*, it takes the place of न् of पथिन् and not of इ. Thus we have पन्थाः, the न being added by (7.1.87). Similarly सः from तद्, which is formed by (7.2.102) "short अ is the substitute of *tyad*, &c.," Here अ takes the place of द्. Thus we have त, which is changed again into स by (7.2.106). Bhashya ------- इको गुणवृद्धी ॥1.1.3 ॥ इग्ग्रहणं किमर्थम् । ॥ इग्ग्रहणमात्सन्ध्यक्षरव्यञ्ञ्जननिवृत्त्यर्थम् ॥ इग्ग्रहणं क्रियते । किं प्रयोजनम् । आकारनिवृत्त्यर्थं सन्ध्यक्षरनिवृत्त्यर्थं व्यञ्ञ्जननिवृत्त्यर्थं च । आकारनिवृत्त्यर्थं तावत् - याता वाता । आकारस्य गुणः प्राप्नोति । इग्ग्र्हणान्न भवति । सन्ध्यक्षरनिवृत्त्यर्थम् - ग्लायति म्लायति । सन्ध्यक्षरस्य गुणः प्राप्नोति । इग्ग्र्हणान्न भवति । व्यञ्ञ्जननिवृत्त्यर्थम्-उम्भिता उम्भितुम् । उम्भितव्यम् । व्यञ्ञ्जनस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति । आकारनिवृत्त्यर्थेन तावन्नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति-नाकारस्य गुणो भवतीति । यदयमातोऽनुपसर्गे कः इति ककारमनुबन्धं करोति । कथं कृत्वा ज्ञापकम् । कित्करण एतत्प्रयोजनम्-कितीत्याकारलोपो यथा स्यात् । यदि चाकारस्य गुणः स्यात् कित्करणमनर्थकं स्यात् । गुणे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं गोदः कम्बलद इति । पश्यति त्वाचार्यो नाकारस्य गुणो भवतीति, ततः ककारमनुबन्धं करोति । सन्ध्यक्षरनिवृत्त्यर्थेनापि नार्थः । उपदेशसार्मथ्यात् सन्ध्यक्षरस्य गुणो न भवति । व्यञ्ञ्जननिवृत्त्यर्थेनापि नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति न व्यञ्ञ्जनस्य गुणो भवतीति । यदयं जनेर्डं शास्ति । कथं कृत्वा ज्ञापकम् । डित्करण एतत्प्रयोजनम्-डितीति टिलोपो यथा स्यात् । यदि व्यञ्ञ्जनस्य गुणः स्याद् डित्करणमनर्थकं स्यात् । गुणे कृते त्रयाणामकाराणां पररूपेण सिद्धं रूपं स्यादुपसरजो मन्दुरज इति पश्यति त्वाचार्यो न व्यञ्ञ्जनस्य गुणो भवतीति । ततो जनेःइर् शास्ति । नैतानि सन्ति ज्ञापकानि । यत्तावदुच्यते - कित्करणं ज्ञापकं नाकारस्य गुणो भवतीति । उत्तरार्थमेतत्स्यात् - तुन्दशोकयोः परिमृजापुनदोः इति । यत्तर्हि गापोष्टक् इत्यनन्यार्थं ककारमनुबन्धं करोति । यदप्युच्यते - उपदेशसार्मथ्यात्सन्ध्यक्षरस्य गुणो न भवतीति । यदि यद्यत्सन्ध्यक्षरस्य प्राप्नोति तत्तदुपदेश-सार्मथ्याद् बाध्यते, आयादयोपि तर्हि न प्राप्नुवन्ति । नैष दोषः । यं विधिं प्रत्युपदेशोऽनर्थकः, स विधिर्बाध्यते । यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते । गुणं च प्रत्युपदेशोऽनर्थकः, आयादीनां पुनर्निमित्तमेव ॥ यदप्युच्यते - जनेर्डंवचनं ज्ञापकम् - न व्यञ्ञ्जनस्य गुणो भवतीति । सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति । न च जनेर्गुणेन सिध्यति । कुतो ह्येतत् - जनेर्गुण उच्यमानोऽकारो भवति, न पुनरेकारो वा स्यादेकारो वेति आन्तर्यतोऽर्धमात्रिकस्य व्यञ्ञ्जनस्य मात्रिकोऽकारो भविष्यति । एवमप्यनुनासिकः प्राप्नोति । पर-रूपेण शुद्धो भविष्यति । एवं तर्हि गमेरप्ययं डो वक्त्व्यः । गमेश्च गुण उच्यमान आन्तर्यत ओकारः प्राप्नोति । तस्मादिग्ग्रहणं कर्तव्यम् ॥ यदीग्ग्रहणं क्रियते द्यौः, पन्थाः, सः, इमम् इति, एतेऽपीकः प्राप्नुवन्ति । ॥ संज्ञया विधाने नियमः ॥। संज्ञया ये विधीयन्ते तेषु नियमः । किं वक्तव्यमेतत् । न हि । कथमनुच्यमानं गंस्यते । गुणवृद्धिग्रहणसार्मथ्यात् । कथं पुनरन्तरेण गुणवृद्धिग्रहणमिको गुणवृद्धी स्याताम् । प्रकृतं गुणवृद्धिग्रहणमनुवर्तते । क्व प्रकृतम् । वृद्धिरादैजदेङ्गुणः इति । यदि तदनुवर्तते अदेङ्गुणो वृद्धिश्च इत्यदेङां वृद्धिसंज्ञापि प्राप्नोति । सम्बन्धमनुवर्तिष्यते - वृद्धिरादैच् । अदेङ्गुणः इति वृद्धिरादैच् । ततः इको गुणवृद्धी इति गुणवृद्धिग्रहणमनुवर्तते, आदैजदेङ्ग्रहणं निवृत्तम् । अथवा मण्डूकगतयोधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः । अथवैकयोगः करिष्यते - वृद्धिरादैजदेङ्गुणः, तत इको गुणवृद्धी इति । न चैकयोगेऽनुवृत्तिर्भवति । अथवा अन्यवचनाच्चकाराकरणाच्च प्रकृतापवादो विज्ञायते, यथोत्सर्गेण प्रसक्तस्यपवादो बाधको भवति । अन्यस्याः संज्ञाया वचनाच्चकारस्य चानुकर्षणार्थस्याकरणात्प्रकृताया वृद्धिसंज्ञाया गुणसंज्ञा बाधिका भविष्यति । यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति । अथवा वक्ष्यत्येतत् - अनुवर्तन्ते च नाम विधयः । न चानुवर्तनादेव भवन्ति । किन्तर्हि यत्नाद्भवन्तीति । अथवा उभयं निवृत्तम् - तदपेक्षिष्यामहे ॥ किं पुनरयमलोन्त्यशेषः, अहोस्विदलोन्त्यापवादः । कथं चायं तच्छेषः स्यात्, कथं वा तदपवादः । यद्येकं वाक्यम् - तच्चेदं च, अलोन्त्यस्य विधयो भवन्ति, इको गुणवृद्धी अलोन्त्यस्य इति । ततोयं तच्छेषः । अथ नानावाक्यम् - तच्चेदं च, अलोन्त्यस्य विधयो भवन्ति, इको गुणवृद्धी अन्त्यस्य चानन्त्यस्य चेति । ततोऽयं तदपवादः । कश्चात्र विशेषः । ॥ वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधार्च्छिदृशिक्षिप्रक्षुद्रेष्विग्रहणम् ॥ वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशि क्षिप्रक्षुद्रेष्विग्ग्रहणं कर्तव्यम् । मिदेर्गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । मृजेर्वृद्धिः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । पुगन्तलघूपधस्य गुणः इक इति वक्तव्यमनन्त्यत्वाद्धि न प्राप्नोति । ऋच्छेर्लिटि गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ऋदृशोङि गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । क्षिप्रक्षुद्रयोर्गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ॥ सर्वादेशप्रसङ्गश्चानिगन्तस्य ॥ सर्वादेशश्च गुणोऽनिगन्तस्य प्राप्नोति । याता वाता । किं कारणम् । अलोन्त्यस्य इति षष्ठी चैव ह्यन्त्यमिकमुपसंक्रान्ता, अङ्गस्येति च स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तस्य गुणः सर्वादेशः प्राप्नोति । नैष दोषः । यथैव ह्यलोन्त्यस्येति षष्ठी अन्त्यमिकमुपसङ्क्रान्ता, एवमङ्गस्येत्यपि स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तत्र षष्ठ्येव नास्ति, कुतो गुणः, कुतः सर्वादेशः । एवं तर्हि नायं दोषसमुच्चयः । किं तर्हि । पूर्वापेक्षोयं दोषः । ह्यर्थे चायं चः पठितः - ॥ मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं सर्वादेशप्रसङ्गो ह्यनिगन्तस्य इति । मिदेर्गुणः इक इति वचनादन्त्यस्य न, अलोन्त्यस्य इति वचनादिको न । उच्यते च गुणः । स सर्वादेशः प्राप्नोति । एवं सर्वत्र ॥ अस्तु तर्हि तदपवादः । ॥ इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः ॥ इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधो वक्तव्यः । जुसि गुणः - स यथेह भवति अजुहवुः अबिभयुः इति । एवमनेनिजुः पर्यवेविषुः अत्रापि प्राप्नोति । सार्वधातुकार्धधातुकयोर्गुणः - स यथेह भवति - कर्ता हर्ता नयति तरतीति । एवम् इर्हिता इर्हितुम् इर्हितव्यम् इत्यत्रापि प्राप्नोति । ह्रस्वस्य गुणः - स यथेह भवति-हे अग्ने हे वायो इति । एवं हे अग्निचित् सोमसुद् इत्यत्रापि प्राप्नोति । जसि गुणः-स यथेह भवति-अग्नयो वायव इति । एवमग्निचितः सोमसुत इत्यत्रापि प्राप्नोति । ऋतो ङिसर्वनामस्थानयोर्गुणः - स यथेह भवति-कर्तरि कर्तारौ कर्तार इति । एवं सुकृति सुकृतौ सुकृत इत्यत्रापि प्राप्नोति । घेर्ङिति गुणः - स यथेह भवति-अग्नये वायवे इति । एवमग्निचिते सोमसुते इत्यत्रापि प्राप्नोति । ओर्गुणः-स यथेह भवति बाभ्रव्यो माण्डव्य इति । एवं सुश्रुत् सौश्रुत इत्यत्रापि प्राप्नोति ॥ नैष दोषः । ॥ पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् ॥। पुगन्तलघूपधग्रहणमनन्त्यनियमार्थं भविष्यति । पुगन्तलघूपधस्यैवानन्त्यस्य नान्यस्यानन्त्यस्येति । प्रकृतस्यैव नियमः स्यात् । किं च प्रकृतम् । सार्वधातुकार्धधातुकयोः इति । तेन भवेदिह नियमान्न स्याद् इर्हिता इर्हीतुम् इर्हितव्यम् इति । ह्रस्वाद्योर्गुणस्त्वनियतः, सोऽनन्त्यस्यापि प्राप्नोति । अथाप्येवं नियमः स्यात् - पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोरेवेति । एवमपि सार्वधातुकार्धधातुकयोर्गुणोऽनियतः, सोऽनन्त्यस्यापि प्राप्नोति इर्हिता इर्हितुम् इर्हितव्यमिति । अथाप्युभयतो नियमः स्यात् - पुगन्तलघूपधस्यैव सार्वधातुकार्धधातुकयोः । सार्वधातुकार्धधातुकयोरेव पुगन्तलघूपधस्येति । एवमप्ययं जुसि गुणोऽनियतः, सोऽनन्त्यस्यापि प्राप्नोति अनेनिजुः पर्यवेविषुः इति । एवं तर्हि - नायं तच्छेषः, नापि तदपवादः । अन्यदेवेदं परिभाषान्तरमसम्बद्धमनया परिभाषया । परिभाषान्तरमिति च मत्वा क्रोष्ट्रीयाः पठन्ति - ॥ नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन ॥ इति । यदि चायं तच्छेषः स्यात्तेनैव तस्यायुक्तो विप्रतिषेधः । अथापि तदपवादः, उत्सर्गापवादयोरप्ययुक्तो विप्रतिषेधः । तत्र नियमस्यावकाशः - राज्ञः क च राजकीयम् । इको गुणवृद्धी इत्यस्यावकाशः - चयन चायको लवनं लावक इति । इहोभयं प्राप्नोति - मेद्यति मार्ष्टीति । इको गुणवृद्धी इत्येतद्भवति विप्रतिषेधेन । नैवं युक्तो विप्रतिषेधः । विप्रतिषेधे परम् इत्युच्यते । पूर्वश्चायं योगः, परो नियमः । इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति । एवमप्ययुक्तो विप्रतिषेधः . द्विकार्ययोगो हि विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः । नावश्यं द्विकार्ययोग एव विप्रतिषेधः । किंतर्हि । असम्भवोपि । स चास्त्यत्रासंभवः । कोऽसावसंभंवः । इह तावद् वृक्षेभ्यः प्लक्षेभ्य इति । एकः स्थानी, द्वावादेशौ, न चास्ति संभवः यदेकस्य स्थानिनो द्वावादेशौ स्याताम् । इहेदानीं - मेद्यति, मेद्यतः, मेद्यन्तीति द्वौ स्थानिनौ, एकादेशः, न चास्ति संभवः । द्वयोः स्थानिनोरेक आदेश स्यादित्येषोऽसम्भवः । सत्येतस्मिन्नसम्भवे युक्तो विप्रतिषेधः । एवमप्ययुक्तो विप्रतिषेधः । द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति । अनवकाशश्चायं योगः । ननु चेदानीमेवास्यावकाशः प्रकॢप्तः चयनं चायको लवनं लावक इति । अत्रापि नियमः प्राप्नोति । नाप्राप्ते नियमेऽयं योग आरभ्यते । यावता च नाप्राप्ते नियमेऽयं योग आरभ्यते, ततस्तस्यापवादोऽयं योगो भवति । उत्सर्गापवादयोश्चायुक्तो विप्रतिषेःः । अथापि कथंचिद् इको गुणवृद्धी इत्यस्यावकाशः स्यात्, एवमपि यथेह विप्रतिषेधादिको गुणो भवति मेद्यति, मेद्यतः, मेद्यन्तीति, एवमिहापि स्यात् - अनेनिजुः, पर्यवेविषुरिति । एवं तर्हि वृद्धिर्भवति गुणो भवतीति यत्र ब्रूयाद् इक इत्येतत्तत्रोपस्थितं द्रष्टव्यम् । किं कृतं भवति । द्वितीया षष्ठी प्रादुर्भाव्यते । तत्र कामचारः, गृह्यमाणेन वेकं विशेषयितुम्, इका वा गृह्यमाणम् । यावता कामचारः, इह तावन्मिदिमृजिपुगन्तलघूपधर्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणमिकं विशेषयिष्यामः - एतेषां य इगिति । इहेदानीं जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्विका गृह्यमाणं विशेषयिष्यामः - एतेषां गुणो भवति, इकः इगन्तानामिति । अथवा सर्वत्रैवात्र स्थानी निर्दिश्यते । इह तावन्मिदेरित्यविभक्तिको निर्देशः, मिद् एः मिदेरिति । अथवा षष्ठीसमासो भविष्यति - मिदः इ-, मिदिः, मिदेरिति । पुगन्तलघूपधस्येति । नैवं विज्ञायते पुगन्ताङ्गस्य लघूपधस्य चेति । कथं तर्हि । पुकि अन्तः पुगन्तः, लग्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूपधम्, पुगान्तलघूपधस्येति । अवश्यं चैतदेवं विज्ञेयम्, अङ्गविशेषणे सतीह प्रसज्येत भिनत्ति छिनत्तीति । ऋच्छेरपि प्रश्लिष्टनिर्देशोऽयम् - ऋच्छति ऋ ऋ ऋताम् ऋच्छत्यॄताम् इति । दृशेरपि योगविभागः करिष्यते - उरङि गुणः उः अङि गुणो भवति ततो दृशेः दृशेश्चाङि गुणो भवति । उरित्येव । क्षिप्रक्षुद्रयोरपि यणादिपरं गुणः इतीयता सिद्धम् । सोऽयमेवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्यैतत्प्रयोजनम् - इको यथा स्यादनिको मा भूदिति । अथ वृद्धिग्रहणं किमर्थम् । किं विशेषेण वृद्धिग्रहणं चोद्यते न पुनर्गुणग्रहणमपि । यदि किञ्ञ्चिद्गुणग्रहणस्य प्रयोजनमस्ति, वृद्धिग्रहणस्यापि तद्भवितुमर्हति । को वा विशेषः । अयमस्ति विशेषः । गुणविधौ न क्वचित्स्थानी निर्दिश्यते । तत्रावश्यं स्थानिनिर्देशार्थं गुणग्रहणं कर्तव्यम् । वृद्धिविधौ पुनः सर्वत्रैव स्थानी निर्दिश्यते अचोञ्ञ्णिति अत उपधायाः तद्धितेष्वचामादेः इति । अत उत्तरं पठति - ॥ वृद्धिग्रहणमुत्तरार्थम् ॥ वृद्धिग्रहणं क्रियते । किमर्थम् । उत्तरार्थम् । क्ङितीति प्रतिषेधं वक्ष्यति । स वृद्धेरपि यथा स्यात् । कश्चेदानीं क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः । यावता ञ्ञ्णिति इत्युच्यते । ॥ तच्च मृज्यर्थम् ॥ मृजेर्वृद्धिरविशेषेणोच्यते । सा क्ङिति मा भूत् - मृष्टः मृष्टवानिति । ॥ इहार्थं चापि ॥। इहार्थं चापि मृज्यर्थं वृद्धिग्रहणं कर्तव्यम् । मृजेर्वृद्धिरविशेषेणोच्यते सेको यथा स्यात्, अनिको मा भूदिति । ॥ मृज्यर्थमिति चेद्योगविभागा त्सिद्धम् ॥। मृज्यर्थमिति चेद्योगविभागः करिष्यते - मृजेर्वृद्धिरचः । ततः ञ्ञ्णिति ञ्ञिति णिति च वृद्धिर्भवति अचः इत्येव । यद्यचो वृद्धिरुच्यते, न्यमार्ट् अटोपि वृद्धिः प्राप्नोति । ॥ अटि चोक्तम् ॥ किमुक्तम् । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति । ॥ वृद्धिप्रतिषेधानुपपत्तिस्त्विक्प्रकरणात् । (तस्मादिग्लक्षणा वृ-द्धिः) वृद्धेस्तु प्रतिषेधो नोपपद्यते । किं कारणम् । इक्प्रकरणात् । इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः । न चैवं सति मृजेरिग्लक्षणा वृद्धिर्भवति । तस्मान्मृजेरिग्लक्षणा वृद्धिरेषितव्या । एवं तर्हि - इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते - परिमृजन्ति परिमार्जन्ति, परिमृजन्तु परिमार्जन्तु परिममृजतुः परिममार्जतुरित्याद्यर्थम् । तदिहापि साध्यम् । तस्मिन्साध्ये योगविभागः करिष्यते मृजेर्वृद्धिरचो भवति । ततः अचि क्ङिति अजादौ च क्ङिति मृजेर्वृद्धिर्भवति । परिमार्जन्ति परिमार्जन्तु परिममार्जतुः । किमर्थमिदम् । नियमार्थम्, अजादावेव क्ङिति नान्यत्र । क्वान्यत्र मा भूत् । मृष्टः मृष्टवानिति । ततो वा । ।वाऽचि क्ङिति मृजेर्वृद्धिर्भवति । परिमृजन्ति परिमार्जन्ति परिमृजतुः परिममार्जतुरिति । इहार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते सेको यथा स्याद् अनिको मा भूदिति । कस्य पुनरनिकः प्राप्नोति । अकारस्य । अचिकीर्षीत्, अजिहीर्षीत् । नैतदस्ति । लोपोत्र बाधको भविष्यति । आकारस्य तर्हि प्राप्नोति - अयासीत् अवासीत् । नास्त्यत्र विशेषः सत्यां वृद्धावसत्यां वा । सन्ध्यक्षरस्य तर्हि प्राप्नोति । नैव सन्ध्यक्षरमन्त्यमस्ति । ननु चेदमस्ति ढलोपे कृते उदवोढामुदवोढमुदवोढेति । नैतदस्ति । असिद्धो ढलोपः । तस्यासिद्धत्वान्नैतदन्त्यं भवति । व्यञ्ञ्जनस्य तर्हि प्राप्नोति अभैत्सीत् अच्छैत्सीत् । हलन्तलक्षणा वृद्धिर्बाधिका भविष्यति । यत्र तर्हि सा प्रतिषिध्यते नेटि इति अकोषीत् अमोषीत् । सिचि वृद्धेरप्येष प्रतिषेधः । कथम् । लक्षणं हि नाम ध्वनति भ्रमति मुहूर्त्तमपि नावतिष्ठते । अथवा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति । तस्या हलन्तलक्षणा वृद्धिर्बाधिका । तस्या अपि नेटि इति प्रतिषेधः । अस्ति पुनः क्वचिदन्यत्रापि अपवादे प्रतिषिद्धे उत्सर्गोपि न भवति । अस्तीत्याह - सुजाते अश्वसूनृते, अध्वर्यो अद्रिभिः सुतम्, शुक्रं ते अन्यदिति । पूर्वरूपे प्रतिषिद्धेऽयादयोपि न भवन्ति । उत्तरार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते सा क्ङिति मा भूत् न्यनुवीत् न्यधुवीत् । नैतदस्ति प्रयोजनम् । अन्तरङ्गत्वादत्रोवङ्ङादेशे कृतेऽनन्त्यत्वाद् वृद्धिर्न भविष्यति । यदि तर्हि सिच्यन्तरङ्गं भवति - अकार्षीत् अहार्षीत्, गुणे कृते रपरत्वे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । मा भूदेवम् । हलन्तस्य - इत्येवं भविष्यति । इह तर्हि न्यस्तारीत् न्यदारीत् । गुणे कृते रपरत्वे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च नेटि इति प्रतिषेधः । मा भूदेवम् । ल्रान्तस्य इत्येवं भविष्यति । इह तर्हि अलावीत् अयावीत् । गुणे कृतेऽवादेशे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च नेटि इति प्रतिषेधः । मा भूदेवम् । ल्रान्तस्य इत्येवं भविष्यति । ल्रान्तस्य इत्युच्यते, न चेदं ल्रान्तम् । ल्रान्तस्य इत्यत्र वकारोपि निर्दिश्यते । किं वकारो न श्रूयते । लुप्तनिर्दिष्टो वकारः । यद्येवम् - मा भवानवीत्, मा भवान् मवीत् । अत्रापि प्राप्नोति । अविमव्योर्नेति वक्ष्यामि । तद्वक्तव्यम् । न वक्तव्यम् । णिश्विभ्यां तौ निमातव्यौ । यद्यप्येतदुच्यते । अथ वैतर्हि णिश्व्योः प्रतिषेधो न वक्तव्यो भवति । गुणे कृतेऽयादेशे च यान्तानां नेत्येव प्रतिषेधो भविष्यति । एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति न सिच्यन्तरङ्गं भवतीति यदयमतो हलादेर्लघोः इत्यकारग्रहणं करोति । कथं कृत्वा ज्ञापकम् । अकारग्रहणस्यैतत्प्रयोजनम् - इह मा भूत् - अकोषीत् अमोषीत् । यदि सिच्यन्तरङ्गं स्याद् अकारग्रहणमनर्थकं स्यात् । गुणे कृतेऽलघुत्वाद् वृद्धिर्न भविष्यति । पश्यति त्वाचार्यो न सिच्यन्तरङ्गं भवतीति, ततोऽकारग्रहणं करोति । नैतदस्ति ज्ञापकम् । अस्त्यदेतस्य वचने प्रयोजनम् । किम् । यत्र गुणः प्रतिषिध्यते तदर्थमेतत् स्यात् न्यकुटीत् न्यपुटीत् । यत्तर्हि णिश्व्योः प्रतिषेधं शास्ति तेन नेहान्तरङ्गमिति दर्शयति । यच्च करोत्यकारग्रहणं लघोरिति कृतेपि । तस्मादिग्लक्षणा वृद्धिः ॥ तस्मादिग्लक्षणा वृद्धिरास्थेया ॥ षष्ठ्याः स्थानेयोगत्वादिग्निवृत्तिः ॥ षष्ठ्याः स्थानेयोगत्वात्सर्वेषामिकां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति दधि मधु । पुनर्वचनमिदानीं किमर्थं स्यात् । ॥ अन्यतरार्थ पुनर्वचनम् ॥। अन्यतरार्थमेतत्स्यात् - सार्वधातुकार्धधातुकयोर्गुण एवेति । ॥ प्रसारणे च ॥। प्रसारणे च सर्वेषां यणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति वाता वाता । पुनर्वचनमिदानीं किमर्थं स्यात् । ॥ विषयार्थं पुनर्वचनम् ॥ विषयार्थमेतत्स्यात् वचिस्वपियजादीनां कित्येवेति । ॥ उरण् रपरे च ॥ उरण् रपरे च सर्वेषामृकाराणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति - कर्तृ हर्तृ इति । ॥ सिद्धं तु षष्ठ्यधिकारे वचनात् ॥। सिद्धमेतत् । कथम् । षष्ठ्यधिकारे इमे योगाः कर्तव्याः । एकस्तावत् क्रियते तत्रैव । इमावपि योगौ षष्ठ्यधिकारमनुवर्तिष्येते । अथवा षष्ठ्यधिकारे इमौ योगावपेक्षिष्यामहे । अथवेदं तावदयं प्रष्टव्यः - सार्वधातुकार्ध धातुकयोर्गुणो भवति इतीह कस्मान्न भवति - याता । इदं तत्रापेक्षिष्यते - इको गुणवृद्धी इति । यथैव तर्हि इदं तत्रापेक्षिप्यते एवमिहापि तदपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इति ॥ इको गुणवृद्धी ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकं समाप्तम् ॥ Kashika ------- परिभाषेयं स्थानिनियमार्था। अनियमप्रसङ्गे नियमो विधीयते। वृद्धिगुणौ स्वसंज्ञया शिष्यमाणाविक एव स्थाने वेदितव्यौ। वक्ष्यति — **सार्वधातुकार्धधातुकयोः** (७.३.८४) अङ्गस्य गुण इति। स इक एव स्थाने वेदितव्यः। तरति। नयति। भवति। वृद्धिः खल्वपि — अकार्षीत्। अहार्षीत्। अचैषीत्। अनैषीत्। अलावीत्। अस्तावीत्। यत्र गुणवृद्धी स्वसंज्ञया विधीयेते तत्र इक इति एतदुपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीया षष्ठी प्रादुर्भाव्यते। मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेनेग् विशेष्यते। जुसि सार्वधातुकादिगुणेष्विकाङ्गं विशेष्यते। मेद्यति। अबिभयुः। इक इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् — यानम्। ग्लायति। उम्भिता। पुनर्गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम्। इह मा भूत् — द्यौः। पन्थाः। सः। इममिति॥ Siddhanta Kaumudi ----------------- गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥ Laghu Shabdendushekhar ---------------------- अथ परिभाषाप्रकरणम् ॥ **इको गुणवृद्धी**। परिभाषेयं व्याख्यानात् । **गुणवृद्धिशब्दाभ्यामिति** । गुणवृद्धिग्रहणानुवृत्त्यैव सिद्धे पुनर्गुणवृद्धिग्रहणसामर्थ्यादिति भावः । अनुवर्तमानञ्च सञ्ज्ञिपरमेव स्यात् सञ्ज्ञाकरणेनान्यत्र सञ्ज्ञिपरत्वात्। यद्वा-तदप्यनुवर्त्य गुणो वृद्धिरिति योजनयैतल्लाभः । **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति सूत्रेऽनुवृत्त'पद'पदस्य सञ्ज्ञापरताया एव दृष्टत्वात् । **ष्णान्ता षट्** (1.1.24) इति सूत्रे सङ्ख्यापदस्य तदन्तत्वासम्भवादर्थपरतेति बोद्ध्यम् । लक्षणप्रतिपदोक्तपरिभाषया तु नात्र निर्वाहः । तत्र 'प्रतिपदोक्तस्ये'त्यस्य - साक्षादुच्चारितस्येति, साक्षात्तत्तच्छब्दानुवादेन विहितस्येति वाऽर्थात् । ध्वनितञ्चेदमत्रैव भाष्ये । अस्याश्च विधेयसमर्पकगुणवृद्धिपदश्रुतिर्लिङ्गं, तदाह - **विधीयेते इति** । अत एव **अतो गुणे** (6.1.897), **वृद्धिर्यस्य..** (1.1.73) इत्यादौ न दोषः । एतेन — **शब्दपरयोः पूर्वयोर्गुणवृद्धिपदयोरनुवृत्त्या यत्र ते पदे तत्रेदमुपतिष्ठते इत्यर्थेन **त्यदानीनामः** (7.2.102) इत्यादिव्यावृत्तौ सिद्धायामिह गुणवृद्धीति व्यर्थम्** — इत्यपास्तम् । एतन्मूलक एव **विधौ परिभाषोपतिष्ठते नानुवादे** इत्युद्घोषः । एवञ्च पदोपस्थापकपरिभाषाविषये **विधीयते** इत्यस्यैवाध्याहारो बोद्ध्यः । एवञ्च **तस्मिन्निति निर्दिष्टे** (1.1.66), **षष्ठी स्थानेयोगा** (1.1.49) इत्यादेरनुवादेऽपि प्रवृत्तिः । तेन **प्रत्ययस्थात्कात्पूर्वस्य** (7.3.44) **उदात्तस्वरितयोर्यणः** (8.2.4) इत्यादौ न दोषः । **उदीचामातः स्थाने** (7.3.46) इति स्थानेग्रहणन्तु स्पष्टार्थमेव। तत्र विधिवाक्ये प्रथमाया विधेयविभक्तित्वेन तदन्तस्य विधेयसमर्पकत्वनिर्णयः । अत एव गुणादिपदानामिक्पदोपस्थापनेन चरितार्थानामपि वाक्यार्थान्वयिता । तदर्थस्य तदनन्वयित्वे विधेयत्वाभावेन उपस्थापकत्वस्यैव भङ्गापत्तेः । इयञ्चैधितेत्यादौ व्यञ्जनानां गुणव्यावृत्त्यर्थं, 'भिन्नमि'त्यादौ निषेधप्रवृत्तये इग्लक्षणत्वसम्पत्त्यर्थञ्चेति दिक् । Balamanorama ------------ **इको गुणवृद्धी** - इको गुणवृद्धि । 'इक' इति षष्टन्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः । सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न ओ ।इकस्शब्द इत्यर्थः । 'उपतिष्ठते' इति शेषः । 'वृद्धिरादैच्' 'अदेङ्गुणः' इत्यतो वृद्धिरिति गुण इति चानुवर्तते । इतिशब्दोऽध्याहार्यः ।यत्र विधीयते तत्रे॑त्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठन्तं पदमुपतिष्ठत इति योजना । तदाह — गुणवृद्धिशब्दाभ्यामित्यादिना । उपतिष्ठत इति । सङ्गतं भवतीत्यर्थः ।उपाद्देवपूचासङ्गतिकरणे॑त्यात्मनेपदम् । सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः ।सार्वधातुकार्धधातुकयोः॑, मिदेर्गुणः॑ इत्याद्युदाहरणम् । इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति । 'यत्र विधीयेते' इत्युक्त्यावृद्धिर्यस्याचा॑मित्याद्यनुवादे इक इति नोपतिष्ठते । अनुवादे परिभाषामनुपस्थितेः । 'त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात् । Tattvabodhini ------------- **इको गुणवृद्धी** - इको गुणवृद्धी । यत्र साक्षात्स्थानी न निर्दिष्टःसार्वधातुकाद्र्धधातुकयोः॑सिचि वृद्धि॑ रित्यादौ, तत्रैवेयं परिभाषा प्रवर्तते नतुअचो ञ्णिती॑त्यादौ, स्थानिनिर्देशात् । गुणवृद्धिशब्दाभ्यामिति । एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्त्यगुणो वृद्धिरिति ये गुणवृद्धी॑ इति योजनया लभ्यते । तेनेह नत्यदादीनामः॑ इमम् ।दिव औत्द्यौः । विधीयेते इति । यत्र । त्वनुवादोवृद्धिर्यस्याचामादि॑रित्यादौ तत्रेक इति षष्टन्तं नोपतिष्ठते, अनुवादे परिभाषाणामनुपस्थितेरिति भावः ।अनुवादे परिभाषाणा॑मित्यस्यानूद्यमानविशेषणेष्वित्यर्थः । अनुपस्थितौ लिङ्गं फलं च-॒उदीचामातः स्थाने॑ इत्यत्र स्फुटीकरिष्यते । षष्ठन्तमिति । सूत्रे षष्ठन्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकत्वात्सोर्लुकिअत्वसन्तस्ये॑ति दीर्धो नेति भावः । पदमिति । तच्च संभवति सामानाधिकरण्येइगन्तस्याङ्गस्ये॑त्यादिक्रमेण संबध्यते ।मिदेर्गुणः॑ मृजेर्बृद्धिः॑ इत्यादौ तु सामानाधिकरण्याऽसंभवान्मिदिमृज्योरवयवस्येक इति संबध्यते । Padamanjari ----------- ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि 'इको गुणवृद्धी न धातुलोपः' इति संयुज्यैव निर्दिशेत् । नापि विधिः, 'इकः स्थाने गुणवृद्धी भवतः' इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । 'अदेङ् गुणः' इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् 'इयम्' इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-'येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते' इत्याह, स वाच्यः-'असिद्धं परिभाषात्वं कथमनूद्यते' इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः' इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । वयं तु ब्रूमः-निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गभाञ्जि भवन्ति । तत्र यथा 'अणौ यत्कर्म णौ चेत्स कर्ता' इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति । ऽस्थानिनियमार्थेऽति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः उ प्रयोजनं यस्याः सा तथोक्ता । 'द्वन्द्वे घि' इत वृइद्धिशब्दस्य पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते;'धर्मादिषु उभयम्' इति वचनादिति सूचयन्नाह-ऽवृद्धिगुणाऽवित्यादि । किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य प्रवृत्तिरिति; यथा 'एच इग्घ्रस्वादेशे' ह्रस्व आदिश्यमान एच इगेवेति । यद्येवम्, अनियमप्रसङ्गे नियम इति 'सार्वधातुकार्धधातुकयोः','सिचि वृद्धिः' इत्यत्रैव स्यात्, अत्र ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु मिदिमृजिपुगन्तलधूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वपि। अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते, न पुनर्नियमोऽनेन प्रदर्श्यते; यथा-'तपस्तपः कर्मकस्यैव' इति । अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा 'इद्गोण्याः' इत्यादेः'अलोऽन्त्यस्य' इत्ययमिति पक्षः । ततो नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्तेतेति जुसि गुणो यथेह भवति - अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि प्राप्नोति । 'सार्वधातुकार्धधातुकयोः' यथेह भवति चेता स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति । अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः; अस्ति चात्र सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च, ततः 'जुसि च' इत्यादौ गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति स्थानषष्ठीनिर्देशात्, 'अलोऽन्त्यस्य' इत्येषापि । तत्र च न समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य चेकोऽनन्त्यस्यापीति । नापि विकल्पः;कदाचिदङ्गान्त्यस्यानिकोऽपि, कदाचितदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ।ल्र्थस्यैक एव हि सकृच्छ्4%अताया अङ्गस्येति षष्ठ।ल अर्थः-स्थानेयोगो वा थ अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन संबध्येत-'अङ्गस्य य इक्, तस्य गुणः' इति, ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः पूर्वमलोन्त्यस्येत्यनेन संबध्यते, स चान्त्येका विशेष्यते 'अङ्गान्त्यस्येको गुणः' इति । यद्वा-इकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः-इगन्तस्याङ्गस्येति । एवमपि हि स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि त्यज्येत, उच्येते च वृद्धिगुणौ 'मृजेर्वृद्धिः' 'मिदेर्गुणः' इति, तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते पदोपस्थापनम्; यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति; तत्रेक इत्येतत् षष्ठ।ल्न्तं पदमुपतिष्ठतामिति । 'अलोऽन्त्यस्य' इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने 'सिचि वृद्धिः' इत्यादौ यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं ततोऽपकृष्याङ्गान्त्यस्य विधते, न त्विक इत्यस्योपस्थानवेलायामुपतिष्ठते । 'मिदेर्गुणः' इत्यादौ तु यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ।ल्भावात्स्वयं न प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते, येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् । वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य प्रदर्शितम्-सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न त्वक्षरव्यापारः । अत एव ऽवेदितव्यौऽ इत्याह । अक्षरव्यापारप्रदर्शने तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । ऽस्वसंज्ञया शिष्यमाणाऽविति । वृद्धिर्भवति गुणो भवतीत्येवं विधीयमानावित्यर्थः । ऽइक इति किमिऽति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः-सूत्रं किमर्थमित्यर्थः । ऽआत्सन्ध्यक्षरेऽत्यादि । ननु 'गापोष्टक्' इति टकः कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् । 'जनेर्डः' इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति । यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं स्यादुपसरज इति । यद्येवम्,मिदेर्गुणोऽन्त्याद्व्यावर्तितः सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत आन्तर्यादोकारो गुणः स्यात्; रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो यद्यभिधानमस्ति; तथा चितः, चिनुतः,भिन्नः, बेभिद्यते इत्यादौ 'क्ङिति च' इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् । अथ वृद्धिग्रहणं किमर्थम् ? 'मृजेर्वृद्धिः' इको यथा स्यात्, अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम् - 'मृजेर्वृद्धिरचः', मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात् ङ्यमार्ट्' अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्, अचिकीर्षीत् । अतो लोपो भविष्यति, 'ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्?' इति वचनात्, यथा-चिकीर्षक इति । आकारस्य नास्ति विशेषः; सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् । रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य क्विबन्तस्य 'आञ्त इद्धातोः' इत्यतः 'धातोः' इत्यनुवृतेः धातुरेव यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ 'सिचि वृद्धिः' इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धौ विधीयमाना हलन्तलक्षणा वृद्धिर्बाधिका, ङेटि' इत्ययं च निषेधो यावती हलन्तस्य वृद्धिः, सिचि वृद्धिरिति वा, हलन्तस्याचेति वा, सा सर्वा न भवतीति विज्ञायते । तेन अनर्दीदित्यादौ अन्त्यस्य वृद्धिर्न भविष्यति । तदेवम् 'इको वृद्धिर्यथा स्याद् अदेङ्व्यञ्जनानां मा भूद्' इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्तव्यम् । एवं तर्हि मृज्यते, मृष्ट इत्यादौ 'क्ङिति च' इति प्रतिषेधार्थं मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि योगविभागात्सिद्धम् - मृजेर्वृद्धिरित्यस्यानन्तरमजादौ क्ङिति वेति वक्तव्यम् - परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः परिममार्जतुरित्येवमर्थम् । तत्र योगविभागः-'अजादौ क्ङिति मृजेरचो वृद्धिर्भवति' । किमर्थमिदम् ? नियमार्थम् - क्ङिति यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि प्रतिषेधार्थमिग्लक्षणत्वम् । 'णु स्तुतौ' 'धू विधूनने' कुटादी, न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग उवङ् सिति हलन्तत्वात् ङेटि' इति निषेधः । यदि सिच्यन्तरङ्गं भवति, अचैषीद् अहौषीद् अहौषीद्-गुणः स्यात् । अस्तु, तस्यैव वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः, अतारीदित्यादौ हलन्तलक्षणायाः ङेटि' इति प्रतिषेधे 'अतो हलादेः ' इति विकल्पं बाधित्वा 'अतो लरन्तस्य' इति नित्या वृद्धिः । अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोरपि 'अतो लरन्तस्य' इत्यत्र वकारस्यापि लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्, अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् । सिच्यन्तरङ्गं भवतीत्युक्ते 'ह्म्यन्तक्षण' इत्यत्र णिश्विग्रहणं न कर्तव्यम्; औनयीत्?, अश्वयीदित्यत्रान्तरङ्गत्वाद् गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने 'अविमवीङिवेशयिष्यामः-'अतो लरन्तस्य' इत्यत्र वकारप्रश्लेषेण प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ? नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं प्रत्याख्यायते,यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङ् इसिचि अचेचायीद्; अनेनायीद्, अचिरायीद्, अजिरायीदिति? न स्याद्; गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् । इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्गं बाध्यते, यदि स्याद्, न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् । यथा च तया गुणायदेशौ बाध्येते, एवं न्यनुवीदित्युवङपि बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य प्रयोजनं न दर्शितम् । अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते इत्याह-ऽगुणवृद्धिग्रहणमिऽत्यादि । इह पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेङमादैचां च ग्रहणे सिद्धे यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद् - ऽवस्तुतो ये गुणवृद्धी तद्विधौऽ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्, पुनर्गुणवृद्धिग्रहणसामर्थ्यातु शब्दव्यापारोऽप्याश्रीयते - गुणवृद्धी ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो लभ्यत इत्यर्थः । अन्यथा 'अचश्च' इत्यस्य स्वसंज्ञया विधाने नियमस्य 'दिव उत्' इत्यादिष्वगुणवृद्धिसंज्ञकेषु; तत्संज्ञेषु च यत्रेङ् न संभवति 'अष्टन आ विभक्तौ' इत्यादौ, तत्र चरितार्थत्वात् 'दिव औत्' इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक् संभवति तत्रायं नियमः स्यात् । द्यौः पन्थाः, सः,इममिति । स इत्येतदनुदाहरणम्, न ह्यत्रेगस्ति । एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः । तस्य निःशेषतो मन्ये प्रतिपतापि दुर्लभः ॥ Nyaas ----- `परिभाषेयम्` इति। नाधिकारः, अस्वरितत्वात्। नापि गुणवृद्धयोर्विधायकं लक्षणम्, लक्षणान्तरेण तयोर्विधास्यमानत्वात्। `स्थानिनियमार्था` इति। स्थानिनि नियमः स्थानिनियमः, स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम्, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। `अनियमप्रसङ्गे नियमो विधीयते` इति। यत्र साक्षात् स्थानी न निर्दिष्टः **सार्वधातुकार्धधातुकयोः** (7.3.84) , **सिचि वृद्धिः परस्मैपदेषु** (7.2.1) इत्यादौ, तत्रानियमे प्रसक्ते नियममेषां करोति-इक एव नान्यस्येति। अतः स एवस्या विषयो वेदितव्यः, न तु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि, यथा- **ओर्गुणः** (6.4.146) **अत उपधायाः** (7.2.116) इत्यादिः। तत्र ह्रनियमस्य प्राप्तिरेव नास्ति। लिङ्गवती चेयं परिभाषा, लिङ्गं चास्या गुणवृद्धिग्रहणम्, तत्रोपतिष्ठते। तथा च द्वे षष्ठ्यौ प्रादुर्भवतः,-`इकः` इत्येका षष्ठी, **मिदेर्गुणः** (7.3.82) इत्येवमादिका द्वितीया।तत्र कामचारादयथेष्टं सिध्यति। तयोर्विशेषणविशेष्यभावः क्रियते। `मिदेः` इत्यत्रान्त इग न सम्भवतीति त्सयाङविशेषणत्वं नोपपद्यतेतस्मादत्राङ्गेनेगेव विशिष्यते- मिदेरङ्गस्य य इगिति। तेन स्थानष्ठभावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्र स्थस्येको गुणः सिद्धो भवति। **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यादौ त्वङ्गस्य इगन्तत्वं सम्भवति। तेन चाङ्गे विशिष्यमाणे तदन्तविधौ सतीष्टं सिध्यति। तस्मादिकै-वाङ्गं विशिष्यते, `इगन्तस्याङ्गस्येति। एवंचय सत्यस्याः स्थानषष्ठीत्वात् **अलोऽन्त्यस्य** (1.1.52) इत्येतदुपतिष्ठछते, तेनेगन्तस्यैवाङ्गस्य गुणवृद्धी भवतः,नेतरस्य। `स्वसञ्ज्ञया` इति। अत्र वक्ष्यमाणोऽभिप्रायः। `इक एव स्थाने` इति।यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति- `अकार्षीत्` इति। `डुकृञ् करण` (धातुपाठः- 1472),लुङ, **च्लेः सिच्** (3.1.44) सिचि वृद्धिः (7.2.1) **अस्तिसिचोऽपृक्ते** (7.3.96) इतीट्। एवम् `अहार्षीत्` इति। अत्र `ह्मञ् हरणे` (धा।899) इत्ययं विशेषः। `इक इति किम्` इत। एकदेशद्वारेण समुदायस्य पर्यनुयोगो वेदितव्यः। न हि `गुणवृद्धी`इत्येतावता विनेग्ग्रहणेनार्थः कश्चित् संगृह्रते। `यानम्` इति। यातेर्ल्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात्। ततश्च द्वयोरकारयोः `अतो गुणे` (6.1.104पररूपत्वे कृते `यनम्` इत्यनिष्टं रूपं स्यात्। `ग्लायति` इति। `ग्लै म्लै हर्षक्षये` (धातुपाठः-903।904), अत्र सन्ध्यक्षरस्य ऐकारस्य एकारो गुणः स्यात्। ततश्चायादेशे कृते ग्लयति इत्यनिष्टं रूपं स्यात्। `उम्भिता`इति। `उभ उम्भ पूरणे` (धातुपाठः-1319,1320), तृच्, इट्। अत्र व्यञ्जनस्य कारस्यौष्ठस्य ओकारो गुणः स्यात्। ततश्चावादेशे कृते `उभविता` इत्यनिष्टं रूपं स्यात्।अथ कथं स्वसञ्ज्ञया शिष्यमाणावित्येष विशेषो लभ्यते? न हि सूत्रेस्वसञ्ज्ञाग्रहणमस्तीत्यत आह `पुनर्गुणवृद्धिग्रहणम्` इत्यादि। इहपूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते। कतस्मिन्ननुवर्तमाने यत् पुनरिह गुणवृद्धरिग्रहणं क्रियतेतस्यैतत् प्रयोजनम्- `यत्र स्वसञ्ज्ञया गुणवृद्धी विधीयेते तत्रायं नियमो यथा स्यात्, अन्यत्र मा भूदिति पुनर्गुणवृद्धिग्रहणसामर्थ्यादन्यतरस्य गुणवृद्धिग्रहणस्य सञ्ज्ञाप्रधानत्वं सम्पाद्यते। कतेन स्वसञ्ज्ञया विधाने नियमो भवतीत्येषोऽ-र्थो लभ्यते। अन्यथा हि यद्येवं पूर्वो नियमो नात्राभिमतः स्यात्, ततो नियतस्य निय मस्य प्रकृतगुणवृद्धिग्रहणानुवृत्त्यैव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकंस्यादित्येवमभिप्रायः। `इह मा भूत्` इत्यादिनार्यैवं प्रकारस्य नियमस्य व्यवच्छेद्यत्वं दर्शयति- `द्यौः` इति। `दिव औत्` (7.1.84) इत्यौकारः। स्वरूपेण विधीयमानोऽलोऽन्त्यस्यैव भवति, नेकः। `पन्थाः` इति। `पथिमध्यृभुक्षामात्` (7.1.85) इत्याकारोऽन्त्यस्यैव भवति, नेकः। `इतोऽत्सर्वनामस्थाने` (7.1.86) इतीकारस्य अकारः, `थोऽन्थः` (7.1.87) इति थकारस्य न्थादेशः। `इयम्` इति। **त्यदादीनामः** (7.2.102) इत्यत्वमन्तर्सयैव भवति, नेकः। `दश्च` (7.2.109) इति दकारस्य मकारः। स इत्यत्र त्वस्याः परिभाषाया उपस्थाने सति त्यदाद्यत्वं न स्यादेव। `तदोः सः सावन-न्त्ययोः` (7.2.106) इति सत्वम्, ननु च `अनश्च` (1.2.28) इत्ययमपि स्थानिनियमः स्वसञ्ज्ञाविधान एवेष्यते, तस्यापि च नियमस्य द्यौरित्यादिकं व्यवच्छेद्यम्। तथा हि वृत्तिकारस्तत्र वक्ष्यति `स्वसञ्ज्ञया विधाने नियमः। अजिति वर्तते। इह मा भूत्, द्यौः, पन्थाः, सः, द्युभ्याम्, द्युभिः` (का 38) इति, ततश्च यदनेन नियमेनैवंविधेन कर्तव्यं तत्तेनैव सिध्यति, नार्थ एवंविधयनियमर्थेन पुनरिह गुणवृद्धिग्रहणेनसत्यमेतत्` किन्त्वेवमर्थप्रतिपत्तौ य एते मन्दधियः प्राथमकल्पिकाः श्रोतारः, तेषांप्रतिपत्तिगौरवं स्यात्। तस्मात् ताननुग्रहीतं विस्पष्टार्थमिह सञ्ज्ञाविधाने नियमं प्रतिपादयितुं पुनर्गुणवृद्धिग्रहणं कृतम्। तद्येवम्, यत् येन विधातव्यं तदनेनैवविहितमिति तत्र सञ्ज्ञाविधाने नियमो न कर्तव्यः? नैतदस्ति; यदि ह्रसावित्थम्भूतो नियमो न स्यात्, ततो `द्युभ्याम् द्युभिः` इत्यत्र **दिव उत्** (6.1.131) इत्युकारः स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात्, नालोऽन्त्यस्य। न ह्रनेन नियमेनाचःशक्यते व्यावर्तयितुम्, तस्य गुणवृद्धिसञ्ज्ञकत्वात्। Praudhamanorama --------------- **गुणवृद्धिशब्दाभ्यामिति।** एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्य गुणो वृद्धिरिति ये गुणवृद्धी इति योजनया लभ्यते। तेनेह न— **दिव औत्** (7.1.84) द्यौः, **त्यदादीनामः** (7.2.102) सः, इमम्। **षष्ठ्यन्तमिति।** सूत्रे षष्ठ्यन्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकात्सोर्लुगिति भावः। **पदमिति।** तच्च सम्भवति सामानाधिकरण्ये इगन्तस्याङ्गस्येत्यादिक्रमेण सम्बध्यते। **मिदेर्गुणः** (7.3.82) **मृजेर्वृद्धिः** (7.2.114) इत्यादौ तु सामानाधिकरण्या-सम्भवान्मिदिमृदज्योरवयवस्येक इति संबध्यते। यत्तु इक एव स्थाने स्त इति प्राचा व्याख्यातम्, यच्च तट्टीकाकृतोक्तमनियमप्रसङ्गे नियमार्थमिदमित्यादि, तत्सर्वं भाष्यविरोधादुपेक्ष्यम्। तच्छेषपक्षं दूषयित्वा पदोपस्थितिपक्षस्यैव भाष्ये समर्थितत्वादित्याहुः। तच्छेषपक्षेऽपि दूषणोद्धारस्तु शब्दकौस्तुभे स्पष्टीकृतोऽस्माभिः। Prakriyasarvasvam ----------------- गुणः स्याद् वृद्धिः स्यादिति च विधायिक एक स्थाने स्यात् ।